संभागीयायुक्तो वार्षिक खीर भवानी मेला यात्रायाः सज्जानां समीक्षा कृता
जम्मूः, 16 जूनमासः (हि.स.)। जम्मूमण्डलस्य आयुक्तः रमेशकुमारः जूनमासस्य विंशतितमे दिने जम्मूनगरस्य नगरोटास्थानात् प्रारम्भमानस्य वार्षिकखीरभवानीमेलायात्रायाः आयोजनस्य सिद्धतासमीक्षार्थं आयोजितायाः संगोष्ठ्याः अध्यक्षताम् अकरोत्। मण्डलायुक्तेन सम्
संभागीय आयुक्त ने वार्षिक खीर भवानी मेला यात्रा की तैयारियों की समीक्षा की


जम्मूः, 16 जूनमासः (हि.स.)।

जम्मूमण्डलस्य आयुक्तः रमेशकुमारः जूनमासस्य विंशतितमे दिने जम्मूनगरस्य नगरोटास्थानात् प्रारम्भमानस्य वार्षिकखीरभवानीमेलायात्रायाः आयोजनस्य सिद्धतासमीक्षार्थं आयोजितायाः संगोष्ठ्याः अध्यक्षताम् अकरोत्।

मण्डलायुक्तेन सम्बन्धितविभागैः सुनिश्चितव्यवस्थासु विस्तृततया चर्चा कृता। जम्मूकश्मीर रेलस्थानकयात्रिकाणां कृते पर्याप्तसंख्यायां बसयानानां उपलब्धता यात्रायाः समन्वयः च सुनिश्चितीकरणार्थं निर्देशाः प्रदत्ताः।

मण्डलायुक्तः सर्वान् विभागान् श्रद्धालूनां सुरक्षां निर्विघ्नविद्युत्जलापूर्तिं स्वच्छतां यातायातप्रबन्धनं चिकित्सासुविधाः तम्बूव्यवस्था परिवहनस्य सुदृढव्यवस्थां च सुनिश्चितं कर्तुं निर्देशितवान्। तेन एतत् बलपूर्वकं उक्तं यत् श्रद्धालूनां क्लेशरहितयात्रायाः सुनिश्चितीकरणार्थं सर्वैः विभागैः सघनसमन्वयेन कार्यं कर्तव्यम्।

रामबनजनपदस्य उपायुक्तः लङ्गरसुविधायाः उचितव्यवस्थां सुनिश्चितुं निर्देशितः यत्र तीर्थयात्रिकाणां समूहः गान्दरबलजनपदस्य तुलमल्लास्थितस्य खीरभवानीमन्दिरस्य मार्गे विश्रामं करिष्यति।

बैठकायाः समये अनेकैः धार्मिकसामुदायिकप्रतिनिधिभिः स्वविचाराः व्यक्ताः तथा प्रतिवर्षं क्रियमाणानां उत्तमव्यवस्थानां प्रति सन्तोषः कृतज्ञता च प्रकटिता।

सूचितं यत् वार्षिकखीरभवानीमेलायात्रायै प्रायः सप्तसहस्र श्रद्धालवः पञ्जीकृताः सन्ति तथा ते जूनमासस्य द्वाविंशतितमे दिने आयोजिते मेले सहभागं करिष्यन्ति।

उपस्थितेषु जेपीडीसीएल संस्थायाः प्रबन्धनिदेशकः जम्मू रामबन उधमपुरजनपदानाम् उपायुक्ताः राहतपुनर्वासायुक्तः प्रवासी जम्मूकश्मीर एसएसपी जम्मू एसएसपी सुरक्षा एसएसपी यातायात विभागाध्यक्षाः जेकेआरटीसी पर्यटनस्वास्थ्यविभागयोः वरिष्ठाधिकारिणः संयुक्तसूचनानिदेशकः धार्मिकसङ्गठनानां प्रतिनिधयः सामुदायिकनेतारः अन्ये च सम्बन्धिताधिकारिणः समाविष्टाः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani