सांकतोड़ियायां भूमिगतांगारस्य अनिलीकरणे कार्यशीलप्रारूपस्य उद्घाटनम्
पश्चिम बर्दवानम्, 16 जूनमासः (हि. स.)। उन्नतकोयलोपयोगप्रौद्योगिक्याः संवर्धनार्थं भविष्यकालीनऊर्जासमाधानानां प्रति जागरूकतावृद्धेः दिशि च महत्त्वपूर्णां प्रयत्नं कुर्वता ईस्टर्न कोलफील्ड्स लिमिटेड संस्थायां भूमिगतकोयलवाष्पीकरणम् तथा तस्य अधःप्रवा
Cmd satis jha


पश्चिम बर्दवानम्, 16 जूनमासः (हि. स.)।

उन्नतकोयलोपयोगप्रौद्योगिक्याः संवर्धनार्थं भविष्यकालीनऊर्जासमाधानानां प्रति जागरूकतावृद्धेः दिशि च महत्त्वपूर्णां प्रयत्नं कुर्वता ईस्टर्न कोलफील्ड्स लिमिटेड संस्थायां भूमिगतकोयलवाष्पीकरणम् तथा तस्य अधःप्रवाहोपयोगस्य आधारेण निर्मितस्य कार्यशीलप्रदर्शनप्रतिरूपस्य उद्घाटनं कृतम्। उद्घाटनं ईसीएल संस्थायाः अध्यक्षः सह प्रबन्धनिदेशकः सतीशझा महोदयः अकरोत्।

अस्मिन् अवसरे ईसीएल संस्थायाः मानवसंसाधननिदेशकः गुंजनकुमारसिन्हः सहिताः संस्थायाः वरिष्ठाधिकारिणः विभागाध्यक्षाः कर्मचारीणः च उपस्थिताः आसन्। एतत् प्रतिरूपं भूमिगतकोयलवाष्पीकरणप्रौद्योगिक्याः वैज्ञानिकसिद्धान्तं सञ्चालनप्रक्रियां भविष्यकालीनसंभावनाः च सरलदृश्यात्मकरीत्या प्रदर्शयति।

एषा प्रौद्योगिकी सम्प्रति झारखण्डराज्यस्य कास्तावेस्टकोयलखण्डे प्रायोगिकपरियोजनारूपेण कार्यान्विता भवति। कार्यक्रमं सम्बोधयन् अध्यक्षः सह प्रबन्धनिदेशकः अवदत् यत् भूमिगतकोयलवाष्पीकरणम् भारतदेशे सततकोयलोपयोगस्य दिशि महत्त्वपूर्णः विकल्पः भवितुं शक्नोति। तस्य मते एषा प्रौद्योगिकी भूमेः गम्भीरभागेषु स्थितानां तेषां कोयलसञ्चयानां उपयोगस्य सामर्थ्यं धारयति येषां परम्परागतखननपद्धतिभिः निष्कासनं कठिनम् अस्ति।

तेन उक्तं यत् यदि प्रायोगिकपरियोजना सफला भवति तर्हि एतत् देशस्य कोयलसंसाधनानां अधिकस्वच्छदक्षोपयोगस्य मार्गं उद्घाटयिष्यति। एषा प्रौद्योगिकी भविष्ये विद्युतोत्पादने उर्वरकनिर्माणे रसायनउद्योगे कृत्रिमईन्धननिर्माणे तथा हाइड्रोजनाधारितऊर्जाक्षेत्रस्य विकासे अपि योगदानं दातुं शक्नोति।

प्रदर्शनप्रतिरूपे भूमिगतकोयलवाष्पीकरणस्य सम्पूर्णा प्रक्रिया कृत्रिमवायोः उत्पादनं तथा तस्य विविधऔद्योगिकोपयोगाः प्रदर्शिताः सन्ति। सहैव अस्मिन् अस्याः प्रौद्योगिक्याः सम्भावितलाभाः यथा न्यूनः पृष्ठभागीयहस्तक्षेपः सञ्चालनसंकटेषु न्यूनता गम्भीरकोयलसञ्चयानां उत्तमोपयोगः च अपि निरूपिताः सन्ति।

एषा परियोजना कोलइण्डिया लिमिटेड संस्थायाः अनुसन्धानविकासपहलायाः अन्तर्गतं संयुक्तरूपेण ईस्टर्न कोलफील्ड्स लिमिटेड तथा सीएमपीडीआई संस्थाभ्यां सञ्चाल्यते यदा तु कनाडादेशस्थितः एग्रो एनर्जी टेक्नोलॉजीज आईएनसी संस्थानं तकनीकीसहयोगं प्रददाति।

परियोजनायाः उद्देश्यं भारतीयपरिस्थितिषु भूमिगतकोयलवाष्पीकरणप्रौद्योगिक्याः तकनीकी आर्थिक व्यवहार्यतायाः मूल्याङ्कनं कृत्वा भविष्ये तस्य व्यावसायिकोपयोगस्य मार्गस्य निर्माणं कर्तुम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani