राजस्थाने जनगणनायाः-2027 प्रथमं चरणं संपन्नम्, 1.40 लक्षात् अधिक प्रगणकाः निर्व्यूढवन्तो दायित्वम्
जयपुरम्, 16 जूनमासः (हि.स.)। भारतस्य जनगणना द्विसहस्रसप्तविंशत्याः प्रथमचरणस्य मकानसूचीकरणं मकानगणना च इति कार्यं राजस्थानराज्ये निर्धारितकालावधौ सफलतया सम्पन्नम् अस्ति। एषा सूचना जनगणनाकार्यनिदेशालयेन राजस्थानस्य निर्गतायां विज्ञप्तौ प्रदत्ता।
फाइल


जयपुरम्, 16 जूनमासः (हि.स.)।

भारतस्य जनगणना द्विसहस्रसप्तविंशत्याः प्रथमचरणस्य मकानसूचीकरणं मकानगणना च इति कार्यं राजस्थानराज्ये निर्धारितकालावधौ सफलतया सम्पन्नम् अस्ति। एषा सूचना जनगणनाकार्यनिदेशालयेन राजस्थानस्य निर्गतायां विज्ञप्तौ प्रदत्ता।

प्रथमचरणस्य अन्तर्गतं एकतः पञ्चदशमईपर्यन्तं स्वगणना तथा षोडशमईतः चतुर्दशजूनपर्यन्तं गृहगृहं गत्वा दत्तांशसङ्ग्रहणस्य कार्यं कृतम्। अस्मिन् काले राजस्थानस्य एकचत्वारिंशत् जनपदेषु दश नगरनिगमक्षेत्रेषु च स्थितासु सप्तशतएकोनषष्टि तहसीलेषु नगरपरिषद्सु नगरपालिकासु च कुलम् एकलक्षचतुस्त्रिंशत्सहस्रैकानवतिः गणनाखण्डेषु सर्वेक्षणकार्यं सम्पन्नम्।

अस्मिन् विशालाभियाने त्र्यधिकशतं प्रमुखप्रशिक्षकाः द्विसहस्रपञ्चशतपञ्चाशत् क्षेत्रप्रशिक्षकाः प्रायः त्रयोविंशतिसहस्र पर्यवेक्षकाः एकलक्षचत्वारिंशत्सहस्र प्रगणकाः तथा राज्यशासनस्य प्रायः त्रिसहस्रपञ्चशत अधिकारीकर्मचारिणः सहभागिनः अभवन्।

जनगणनानिदेशालयेन राज्यशासनस्य मार्गदर्शनं सहयोगश्च अस्याः सफलतायाः प्रमुखाधारः इति उक्तम्।

निदेशालयस्य अनुसारं प्रथमचरणे भवनानां गृहाणां च सूचीकरणेन सह परिवाराणां उपलब्धमूलभूतसुविधानां सम्पत्तीनां च सम्बन्धितसूचनाः सङ्गृहीताः। सहैव जनसङ्ख्यायाः प्रारम्भिकानुमानम् अपि प्राप्तम् येन द्वितीयचरणे कार्याणां उत्तमविभाजनं कर्तुं शक्यते।

प्रथमचरणे प्रगणकैः पर्यवेक्षकैः च दूरभाषअनुप्रयोगस्य माध्यमेन सङ्गृहीताः दत्तांशाः प्रत्यक्षतया केन्द्रीयस्तरे प्रेषिताः सन्ति।

जनगणनायाः द्वितीयचरणः यस्मिन् जनसङ्ख्यायाः वास्तविकगणना भविष्यति सः द्विसहस्रसप्तविंशत्याः फेब्रुवरीमासे हिमाच्छादितप्रदेशान् विना सम्पूर्णदेशे एकस्मिन् समये आयोजितः भविष्यति।

निदेशालयेन स्पष्टं कृतं यत् प्रथमचरणसम्बद्धानि कानिचिदपि आधिकारिकदत्तांशाः अद्यावधि प्रकाशिताः न सन्ति। जनसङ्ख्यासम्बन्धिनः सर्वे दत्तांशाः केवलं भारतस्य महारजिस्ट्रारस्य जनगणनायुक्तस्य कार्यालयेन एव आधिकारिकरूपेण प्रकाशिताः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani