Enter your Email Address to subscribe to our newsletters

मथुरा, 16 जूनमासः (हि.स.)।
ब्रजप्रेसक्लबपक्षतः हिन्दीपत्रकारिताविषये जूनमासस्य एकोनविंशतितमे दिने आयोजितायां संगोष्ठ्यां उत्तरप्रदेशशासनस्य खाद्यरसदनागरिकापूर्तिविभागस्य मन्त्रिमण्डलीयमन्त्री मनोजकुमारपाण्डेयः सहभागं करिष्यति।
एनयूजेआई संस्थायाः राष्ट्रियोपाध्यक्षः तथा ब्रजप्रेसक्लबस्य अध्यक्षः डॉ कमलकान्त उपमन्यु अधिवक्ता मङ्गलवासरे पत्रकारान् अवदत् यत् मथुरानगरस्य ब्रजवासी रॉयल होटलस्य सभागारे जूनमासस्य एकोनविंशतितमे दिने आयोजितायां संगोष्ठ्यां प्रदेशस्य खाद्यरसदनागरिकापूर्तिमन्त्री मनोजकुमारपाण्डेयस्य अतिरिक्तम् एनयूजेआई संस्थायाः राष्ट्रियाध्यक्षः रासबिहारी, राज्यमान्यताप्राप्तसंवाददातासमितेः अध्यक्षः हेमन्ततिवारी तथा देशस्य अन्ये अनेकाः वरिष्ठपत्रकाराः जनप्रतिनिधयः च सहभागं करिष्यन्ति।
डॉ उपमन्यु पत्रकारान् अवदत् यत् ब्रजप्रेसक्लबेन अस्य आयोजनस्य भव्यनिर्वहणार्थं सर्वाः सिद्धताः पूर्णीकृताः सन्ति। तेन ब्रजक्षेत्रस्य सर्वेभ्यः इलेक्ट्रॉनिकमाध्यम, मुद्रितमाध्यम, सामाजिकमाध्यम तथा यूट्यूब इत्यादिभिः सम्बद्धेभ्यः समाजचिन्तकेभ्यः पत्रकारेभ्यः च समये कार्यक्रमे सहभागितायै आह्वानं कृतम्।
तेन उक्तं यत् समाजहिते उत्तमकार्यं कुर्वन्तः जनप्रतिनिधयः, प्रशासनिकाधिकारिणः, पुलिसाधिकारिणः तथा पत्रकाराः अपि सम्मानिताः भविष्यन्ति।
Hindusthan Samachar / Dheeraj Maithani