इंदौरम् - रक्षा-उत्पादने आत्मनिर्भरतायै अद्य कार्यशालायाः आयोजनम्
इंदौरम्, 16 जूनमासः (हि.स.)। मध्यप्रदेश औद्योगिकविकास निगम तथा रक्षा उत्पादन विभागेन देशं रक्षा-उत्पादानां निर्माणे आत्मनिर्भरं कर्तुं तथा महतीनां उद्योगैककानां सह सूक्ष्म लघु मध्यम उद्योगानां नवप्रारम्भिक उद्योगानां शिक्षासंस्थानानां औद्योगिकसङ्घट
वर्कशाप का आमंत्रण


इंदौरम्, 16 जूनमासः (हि.स.)। मध्यप्रदेश औद्योगिकविकास निगम तथा रक्षा उत्पादन विभागेन देशं रक्षा-उत्पादानां निर्माणे आत्मनिर्भरं कर्तुं तथा महतीनां उद्योगैककानां सह सूक्ष्म लघु मध्यम उद्योगानां नवप्रारम्भिक उद्योगानां शिक्षासंस्थानानां औद्योगिकसङ्घटनानां च सहभागितां सुनिश्चेतुम् अद्य मङ्गलवासरे रक्षा विनिर्माणे आत्मनिर्भरता इति कार्यशालायाः आयोजनं क्रियते।

जनसम्पर्काधिकारी महिपाल अजयेन सूचितं यत् इन्दौरस्य अतुल्य आईटी पार्कस्थे एमपीआईडीसी क्षेत्रीयकार्यालये आयोजितायां अस्यां कार्यशालायां भारतसर्वकारस्य प्रदेशसरकारस्य च वरिष्ठाः अधिकारीणः तैः उद्योगैः सह संवादं करिष्यन्ति ये रक्षाविनिर्माणक्षेत्रे कार्यरताः सन्ति अथवा येषां उत्पादानां रक्षा सम्बन्धिषु कार्येषु उपयोगः कर्तुं शक्यते।

उल्लेखनीयम् अस्ति यत् अस्यां कार्यशालायां परम्परागतविनिर्माणस्य अतिरिक्तं नवीननवाचाराः प्रौद्योगिकी तथा प्राचीनपद्धतेः परिवर्तनार्थं सुझावाः आमन्त्रिताः भविष्यन्ति। तेन सह एताः उद्योगैककाः प्रत्यक्षरूपेण रक्षा उत्पादन विभागेन सह सम्बद्धाः भवितुं शक्नुवन्ति तथा च प्रदेशे विनिर्माणस्य नवीनाः अवसराः उत्पत्स्यन्ते येन निवेशः रोजगारः च प्रोत्साहितः भविष्यति।

इच्छुकाः उद्योगाः उद्यमिनः नवप्रारम्भिक उद्योगाः संस्थानानि च कार्यक्रमे सहभागितायै इन्वेस्ट एमपी पोर्टले पञ्जीकरणं कर्तुं शक्नुवन्ति अथवा अस्य क्यू आर संकेतस्य माध्यमेन अपि पञ्जीकरणं कर्तुं शक्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani