Enter your Email Address to subscribe to our newsletters

पलामूः, 16 जूनमासः (हि.स.)।
डालटनगञ्जस्य विधायकस्य आलोकचौरसियस्य पितुः अनिलचौरसियस्य चतुर्दशमी पुण्यतिथिः मङ्गलवासरे आचरिता। शाहपुरगढवा मार्गस्थिते किन्नीग्रामे अनिलचौरसियस्य प्रतिमायाः समक्षं श्रद्धाञ्जलिसभायाः आयोजनम् अभवत्। कार्यक्रमे मुख्यातिथिरूपेण झारखण्डस्य पूर्वमुख्यमन्त्री रघुवरदासः उपस्थितः आसीत्।
अस्य अतिरिक्तं पलामूसंसदीयक्षेत्रस्य सांसदः विष्णुदयालरामः विधायकः आलोकचौरसियः विधायकः कुशवाहा शशिभूषणमेहता महापौरः अरुणाशङ्करः तथा अन्ये जनप्रतिनिधयः सामाजिककार्यकर्तारः बहवः समर्थकाः च दिवङ्गतस्य अनिलचौरसियस्य प्रतिमायां पुष्पाणि समर्प्य श्रद्धाञ्जलिं प्रदत्तवन्तः।
अत्यधिकतापस्य अपि जनाः अनिलचौरसियं स्मर्तुं समर्थकानां कार्यकर्तॄणां च विशालः जनसमूहः स्थले समागतः आसीत्।
उल्लेखनीयम् अस्ति यत् अनिलचौरसियः चतुर्दश जून मासे द्विसहस्रद्वादशे वर्षे तीव्रतापयुक्ते दिने गढवा जनपदस्य भण्डरिया प्रखण्डस्य बोडरीग्रामे अन्तिमां जनसभां कृतवान्। तस्याः सभायाः अनन्तरं सः अस्वस्थः अभवत् तथा च षोडश जून मासे द्विसहस्रद्वादशे वर्षे अन्तिमं श्वासं त्यक्तवान्।
अनिलचौरसियस्य निधनस्य चतुर्दश वर्षाणि अतीतानि सन्ति। प्रतिवर्षं तस्य पुत्रः विधायकः आलोकचौरसियः श्रद्धाञ्जलिसभाम् आयोजयति तथा तस्य अपूर्णस्वप्नानां पूर्त्यर्थं संकल्पं करोति।
तत्र उपस्थितः रघुवरदासः उक्तवान् यत् अनिलचौरसियः दरिद्राणां दलितानां शोषितानां च स्वरः आसीत्। सः स्वस्य राजनैतिकजीवने दरिद्राणां दलितानां च अधिकारार्थं सदा संघर्षं कृतवान्। प्रचण्डतापस्य अपि अत्र समागतः जनसमूहः तस्य लोकप्रियतायाः महान् प्रमाणम् अस्ति। षोडश जून द्विसहस्रद्वादशः दुःखदः दिवसः आसीत् यतः अस्मिन्नेव दिने शोषितानां दलितानां पश्चाद्वर्गीयजनानां च स्वरः जनमानसस्य नेता अनिलचौरसियः दिवङ्गतः अभवत्।
विधायकः आलोकचौरसियः उक्तवान् यत् तस्य पिता दरिद्रजनानां उपरि अत्याचारस्य विरोधे संघर्षं कृत्वा स्वीयां विशिष्टपहचानं स्थापितवान्। तस्य संघर्षस्य स्मरणेन जनतया तम् त्रिवारं विधायकरूपेण निर्वाचितम्। किन्तु विधानसभाक्षेत्रे जनहिताय क्रियमाणैः विकासकार्यैः निराशाः केचन नेतारः एतत् स्वीकर्तुं न शक्नुवन्ति यत् दरिद्रस्य पुत्रः त्रिवारं विधायकः कथं जातः।
कार्यक्रमस्य समये वृक्षारोपणकार्यक्रमः अपि सम्पन्नः।
---------------
Hindusthan Samachar / Dheeraj Maithani