Enter your Email Address to subscribe to our newsletters

बेंगलुरुः, 16 जूनमासः (हि.स.)।
राष्ट्रियस्वयंसेवकसंघस्य आरएसएस इत्यस्य विषये कांग्रेसदलस्य नेतृभिः क्रियमाणानां टिप्पणीनां विषये तीव्रां प्रतिक्रियाम् व्यक्त्वा कर्नाटकविधानसभायाः विपक्षनेता आर अशोकः अवदत् यत् देशभक्तस्य संघस्य आरएसएस इत्यस्य राष्ट्रनिष्ठायाः विषये प्रश्नोत्थापनस्य नैतिकाधिकारः कांग्रेसदलस्य नास्ति।
अशोकः एक्स माध्यमे उक्तवान् यत् देशविभाजनस्य उत्तरदायित्वं वहन्त्या मुस्लिमलीग इत्यादृशैः संघैः सह राजनैतिकगठबन्धनं कृतवत्याः कांग्रेसदलस्य आरएसएस विषये टिप्पणीकरणं विडम्बनापूर्णम् अस्ति। तेन आरोपः कृतः यत् कांग्रेसदलेन प्रथमं स्वस्य राजनैतिकइतिहासस्य विषये आत्मचिन्तनं कर्तव्यम्।
सः विधानसौधस्य पुरतः कथितस्य पाकिस्तानजिन्दाबाद इति घोषणायाः घटनायाः उल्लेखं कृत्वा अवदत् यत् तस्मिन् समये राज्यसर्वकारेण तथा मन्त्री प्रियंकखरगेण समुचितकार्यवाही न कृता। तेन आरोपः कृतः यत् देशविरोधिमनःस्थितिं धारयतां जनानां समर्थनं कुर्वन्तः जनाः अधुना आरएसएस इत्यस्य वैधतायाः राष्ट्रसेवायाश्च विषये प्रश्नान् उत्थापयन्ति यत् दुर्भाग्यपूर्णम् अस्ति।
विपक्षनेता अवदत् यत् कांग्रेसदले आगामिनः मुख्यमन्त्रिपदस्य सम्भावितदावेदाराणां मध्ये स्पर्धा प्रवर्तते तथा प्रियंकखरगे दलनेतृत्वस्य ध्यानाकर्षणस्य उद्देश्येन आरएसएस इत्यस्य विषयं उत्थापयति। तस्य मते वर्षे २०२८ विधानसभानिर्वाचनं दृष्ट्वा राजनैतिकरणनीत्याः अन्तर्गतं एतादृशानि वक्तव्यानि प्रदीयन्ते।
अशोकः आरोपं कृतवान् यत् सूचना प्रौद्योगिकी ग्रामविकासादीनां विभिन्नविभागानां दायित्वनिर्वहणे प्रियंकखरगे असफलः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani