लोकसभायाः अध्यक्षः ओम बिरला लोकतंत्रे आधिक्येन जनभागितायां दत्तवान् बलम्
नवदिल्ली, 16 जूनमासः (हि.स)। लोकसभाध्यक्षः ओमबिरला महोदयः मङ्गलवासरे लोकतन्त्रे अधिकाधिक जनसहभागितायाः महत्त्वम् अधिजगाद। तेन उक्तं यत् विकसितभारतस्य २०४७ तमवर्षपर्यन्तं निर्माणं युवानां ऊर्जा, नवोन्मेषशक्ति, नेतृत्वक्षमता तथा कर्तव्यबोधेन एव सम्
'विकसित भारत युवा संसद 2026' को संबोधित करते लोकसभा के अध्यक्ष ओम बिरला


'विकसित भारत युवा संसद 2026' को संबोधित करते लोकसभा के अध्यक्ष ओम बिरला


'विकसित भारत युवा संसद 2026' को संबोधित करते लोकसभा के अध्यक्ष ओम बिरला


नवदिल्ली, 16 जूनमासः (हि.स)।

लोकसभाध्यक्षः ओमबिरला महोदयः मङ्गलवासरे लोकतन्त्रे अधिकाधिक जनसहभागितायाः महत्त्वम् अधिजगाद। तेन उक्तं यत् विकसितभारतस्य २०४७ तमवर्षपर्यन्तं निर्माणं युवानां ऊर्जा, नवोन्मेषशक्ति, नेतृत्वक्षमता तथा कर्तव्यबोधेन एव सम्भविष्यति।

ओमबिरला महोदयः संसद्भवनपरिसरे संविधानसदनस्य केन्द्रीयसभागारे राष्ट्रियस्तरे आयोजितस्य विकसितभारत युवा संसद २०२६ इत्यस्य प्रतिभागिनः सम्बोधयन् एतत् उक्तवान्। लोकसभाध्यक्षः अवदत् यत् विविधसंस्कृतिभिः तथा भिन्नभिन्नैः भौगोलिकपरिस्थितिभिः युक्तस्य विश्वस्य विशालतमजनसंख्यायाः देशः भारतः स्वतन्त्रतायाः अनन्तरं वर्धमानेन जनसहभागेन सह विश्वस्य महत्तमं लोकतन्त्ररूपेण उदितः अभवत्।

तेन उक्तं यत् लोकतन्त्रं देशस्य कार्यसंस्कृतेः चिन्तनस्य च महत्त्वपूर्णः अङ्गः अस्ति। लोकसभाध्यक्षः अवदत् यत् राष्ट्रस्य भविष्यस्य निर्माणाय विकसितभारतस्य लक्ष्यप्राप्तये च लोकतन्त्रे सक्रियः समावेशात्मकः च सहभागः अत्यावश्यकः अस्ति।

एतस्मात् पूर्वं तेन राष्ट्रीयस्तरीयस्य विकसितभारत युवा संसद २०२६ इत्यस्य उद्घाटनं कृतम्। अस्मिन् अवसरे केन्द्रीययुवकार्यक्रीडामन्त्री डॉ मनसुखमाण्डविय महोदयः अपि उपस्थितः आसीत्।

विकसितभारत युवा संसद इत्यस्य आयोजनं प्रतिवर्षं भारतसर्वकारस्य युवकार्यक्रीडामन्त्रालयेन क्रियते। एषा प्रमुखा योजना देशस्य युवभ्यः लोकतान्त्रिकप्रक्रियासु, नीतिगतचर्चासु तथा संसदीयकार्यवाहिषु सहभागितायाः अद्वितीयं मञ्चं प्रददाति, येन विकसितभारत २०४७ इत्यस्य यात्रायां तेषां भूमिका अधिका सुदृढा भवति।

---------------

Hindusthan Samachar / Dheeraj Maithani