महात्मगांधी-आगमनशताब्दीसमारोहायोजनसमितेःउपवेशनम्
भागलपुरम्, 16 जूनमासः (हि.स.)। अङ्गप्रदेशे महात्मागान्ध्यागमनशताब्दीसमारोहआयोजनसमितेः सदस्याणां सभा गान्धीशान्तिप्रतिष्ठानकेन्द्रे काजवलीचकस्थाने मङ्गलवासरे अभवत्। सभायाः अध्यक्षता प्रकाशचन्द्रगुप्तेन कृता। आयोजनव्यवस्थायाः विषये चर्चां कृत्वा नि
बैठक में शामिल लोग


भागलपुरम्, 16 जूनमासः (हि.स.)।

अङ्गप्रदेशे महात्मागान्ध्यागमनशताब्दीसमारोहआयोजनसमितेः सदस्याणां सभा गान्धीशान्तिप्रतिष्ठानकेन्द्रे काजवलीचकस्थाने मङ्गलवासरे अभवत्।

सभायाः अध्यक्षता प्रकाशचन्द्रगुप्तेन कृता। आयोजनव्यवस्थायाः विषये चर्चां कृत्वा निर्णयः कृतः यत् जूनमासस्य एकविंशतितमे दिने गान्धीशान्तिप्रतिष्ठानकेन्द्रस्य सभागारे संरक्षक मण्डलस्य, स्वागतसमितेः तथा आयोजनसमितेः सदस्याणां व्यापकसभा आयोजिता भविष्यति।

सभायां क्षेत्रीयजनप्रतिनिधयः, सामाजिककार्यकर्तारः, शोधच्छात्राः, लेखकाः, कवयः तथा प्रबुद्धजनाः आमन्त्रिताः सन्ति। यस्मिन् सर्वेभ्यः व्यापकसहभागितायाः अपेक्षा कृता अस्ति।

एतदपि निर्णयः कृतः यत् अगस्तमासस्य सप्तम, अष्टम तथा नवम दिनाङ्केषु आयोजिताः समस्ताः कार्यक्रमाः श्वेताम्बरजैनधर्मशालायां पर्वतीस्थाने मुस्लिम उच्चविद्यालयस्य सम्मुखे आयोजिताः भविष्यन्ति।

अस्मिन् अवसरे राष्ट्रियपुस्तकमेला, गान्धीचित्रप्रदर्शनी, रक्तदानशिविरम्, सद्भावनायात्रा, सांस्कृतिककार्यक्रमाः तथा राष्ट्रियस्तरीयैः शोधविशेषज्ञैः संकलिताः शोधपत्राः प्रस्तुताः भविष्यन्ति।

सभायां प्रकाशचन्द्रगुप्तः, डॉक्टर फारूक अली, प्रसून लतान्तः, मनोज मिता, वासुदेवभाई, संजयकुमारः, मोहम्मद तकी अहमद जावेदः, प्यारीदेवी, विशालकुमारः इत्यादयः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani