Enter your Email Address to subscribe to our newsletters

भोपालम्, 16 जूनमासः (हि.स.)।
मध्यप्रदेशे वर्षस्य २०२५ २६ सत्रस्य पञ्चमी तथा अष्टमी कक्षायाः पुनः परीक्षा अद्य मङ्गलवासरे १६ जूनतः आरभ्यते। एषा परीक्षा २३ जून पर्यन्तं प्रचलिष्यति। अस्यां परीक्षायां सत्रस्य २०२५ २६ मुख्यपरीक्षायाम् अनुत्तीर्णाः अनुपस्थिताश्च विद्यार्थिनः सम्मिलितुं शक्नुवन्ति।
जनसम्पर्काधिकारी सुनील वर्मा महोदयेन सूचना प्रदत्ता यत् परीक्षायाः सुचारु सञ्चालनार्थं राज्यशिक्षाकेन्द्रेण सम्पूर्णप्रदेशे कुलम् २ सहस्र ७९५ परीक्षाकेन्द्राणि स्थापितानि सन्ति। एषा परीक्षा प्रातः १० वादनात् आरभ्यते। पञ्चमीकक्षायाः पुनः परीक्षायां प्रायः १ लक्ष १७ सहस्राधिकाः तथा अष्टमीकक्षायाः प्रायः १ लक्ष ३२ सहस्राधिकाः परीक्षार्थिनः सम्मिलिताः भविष्यन्ति।
उल्लेखनीयम् अस्ति यत् प्रदेशस्य समस्तासु शासकीयासु मान्यताप्राप्तासु अशासकीयासु अनुदानप्राप्तासु विद्यालयासु तथा पञ्जीकृतमदरसायां अध्ययनरतानां पञ्चमी तथा अष्टमीकक्षायाः विद्यार्थिनां पुनः परीक्षा सत्रस्य २०२५ २६ अन्तर्गतं १६ जूनतः २३ जूनपर्यन्तं आयोजिता भविष्यति।
परीक्षाकेन्द्रेषु एव भविष्यति प्रश्नपत्राणां स्थलमुद्रणम्
पुनः परीक्षायाः प्रश्नपत्राणां गोपनीयतां सुनिश्चेतुं प्रश्नपत्राणां तत्कालमुद्रणं परीक्षाकेन्द्रे केन्द्राध्यक्षेन क्रियते। परीक्षा पोर्टलतः प्रश्नपत्राणि अवतारयितुं मुद्रयितुं च जिलापरियोजना समन्वयकः नोडलाधिकारीरूपेण नियुक्तः अस्ति। परीक्षाणां निर्विघ्नसञ्चालनाय राज्यशिक्षाकेन्द्रस्य निर्देशानुसारं प्रत्येकस्मिन् परीक्षाकेन्द्रे न्यूनतया द्वौ सङ्गणकौ अथवा चलसङ्गणकौ द्वौ कार्यक्षमौ मुद्रकौ अन्तर्जालसुविधा पर्याप्ताः ए ४ आकारस्य पत्राणि टोनर तथा सुगमविद्युत् व्यवस्था सुनिश्चिती कृता अस्ति।
जनशिक्षाकेन्द्रस्तरे निर्मितानि सन्ति परीक्षाकेन्द्राणि
पञ्चमी तथा अष्टमीकक्षायाः पुनः परीक्षायै केवलं जनशिक्षाकेन्द्रस्तरे एव परीक्षाकेन्द्राणि निर्मितानि सन्ति। यदि कस्मिंश्चित् जनपदे कस्मिन् अपि परीक्षाकेन्द्रे ५०० अधिकाः परीक्षार्थिनः सम्मिलिताः भवन्ति तर्हि तस्मिन् स्थिताः।
---------------
Hindusthan Samachar / Dheeraj Maithani