Enter your Email Address to subscribe to our newsletters

(चित्रम् - अपसार्य पुनः प्रवर्तितम्)
नवदेहली, 16 जूनमासः (हि.स.)। दिल्ली-एनसीआर-क्षेत्रे चत्वारि नवीनानि ग्रीनफील्ड-नगराणि विकसितानि भविष्यन्ति, दिल्लीसमीपे च एका आधुनिका उपनगरी 'नमो-सिटी' निर्मास्यते। इदं निर्णयं मङ्गलवासरे नेशनल-कैपिटल-रीजन-प्लानिंग-बोर्ड (एन्.सी.आर्.पी.बी.) इत्यस्य द्विचत्वारिंशत्तमे (४२) सम्मेलने गृहीतम्। सम्मेलनस्य अध्यक्षतां केन्द्रीयगृहनिर्माण-नगरीयकार्यमन्त्री मनोहरलालः अकरोत्। सम्मेलने एन्.सी.आर्.-क्षेत्रस्य विकासेन, पर्यावरणसंरक्षणेन सार्वजनिकपरिवहनेन च सम्बद्धेषु अनेकेषु महत्त्वपूर्णेषु विषयेषु चर्चा अभवत्।
मनोहरलालः सम्मेलनानन्तरं पत्रकारान् अवदत् यत् क्षेत्रीय-योजना-२०४१ इत्ययम् आगामिनौ द्वौ मासौ अन्तिमरूपं दत्त्वा प्रवर्तितं करिष्यते। एन्.सी.आर्.-इत्यस्य वर्तमानसीमासु कोऽपि परिवर्तनः न भविष्यति। योजनानुसारं प्रत्येकराज्ये एकं बृहत् नगरं ग्रीनफील्ड्-'नमो-नोड'-रूपेण विकसितं भविष्यति। दिल्लीसमीपे निर्मीयमाणा 'नमो-सिटी' अत्याधुनिकनगरीयसुविधाभिः उन्नतसंरचनया च सुसज्जिता भविष्यति।
सः अवदत् यत् एन्.सी.आर्.-इत्यस्य क्षेत्रफलं प्रायः ५५,००० वर्गकिलोमीटरम् अस्ति, यत्र ३२ जनपदाः सन्ति। अस्मिन् क्षेत्रे विकासस्य पर्यावरणसंरक्षणस्य च मध्ये सन्तुलनं स्थापयितुं नवीनाः नीतयः प्रवर्तिताः भविष्यन्ति। सम्मेलने अरावली-क्षेत्रस्य संरक्षणविषये अपि चर्चा अभवत्। वर्तमानवनैः सह कोऽपि सन्धिः न भविष्यति, हरितावरणवृद्धौ च विशेषं ध्यानं दत्तं भविष्यति।
सम्मेलने प्रदूषणनियन्त्रणविषये अपि महत्त्वपूर्णाः निर्णयाः गृहीताः। बीएस्-१, बीएस्-२, बीएस्-३ इति वाहनानि मार्गेभ्यः अपसारयितुं बीएस्-६-मानकयुक्तानि वाहनानि च प्रोत्साहयितुं सहमतिः अभवत्। अस्य कृते 'परिवर्तनयोजना' प्रवर्तिता भविष्यति, यस्यान्तर्गतं पुरातनवाहनानि स्क्रैपिंगार्थं प्रेषयिष्यन्ते, नवीनवाहनक्रयणे च प्रोत्साहनं दत्तं भविष्यति। बीएस्-३-वाहनाणि २०१०-तमवर्षतः प्रचलन्ति, अधुना च १६ वर्षाणि पुरातनानि जातानि, अतः एतानि क्रमबद्धरीत्या मार्गेभ्यः अपसारयिष्यन्ते।
यातायातदबावस्य ह्रासार्थं उत्तमसंयोजनसुनिश्चयार्थं च मेट्रो-नमो-भारत-रेलनेटवर्कस्य विस्तारे अपि बलं दत्तम्। प्रस्तावे एन्.सी.आर्.-इत्यस्य चतुर्षु बृहन्नगरेषु नमो-भारत-परियोजनया सह संयोजनस्य उल्लेखः कृतः, यदर्थं प्रायः ५,००० कोटिरूप्यकाणां प्रावधानं कृतम्।
सम्मेलने प्रस्तुतांकानुसारं एन्.सी.आर्.-इत्यस्य वर्तमानजनसंख्या प्रायः ७५ मिलियनम् (७.५ कोटिः) अस्ति, या आगामिषु १५ वर्षेषु द्विगुणा भवितुं शक्नोति। एतत् ध्यानेन रक्षन्तः परिवहनार्थं आवासार्थं संरचनार्थं च दीर्घकालीनाः योजनाः सिद्ध्यमानाः सन्ति।
सम्मेलने हरियाणामुख्यमन्त्री नायबसिंहसैनी, उत्तरप्रदेशनगरीयविकासमन्त्री एके. शर्मा, राजस्थाननगरीयविकासमन्त्री झाबरसिंहखर्रा च सहितं अनेके वरिष्ठाधिकारिणः योजनाकाराः च उपस्थिताः आसन्। मनोहरलालः अवदत् यत् इयं योजना एन्.सी.आर्.-इत्यस्य विकासाय नूतनं दिशां दास्यति, आगामिवर्षेषु च क्षेत्रस्य वर्धमानां जनसंख्यां आवश्यकताः च पूर्तिकरणे साहाय्यं करिष्यति।
-------------
Hindusthan Samachar / अंशु गुप्ता