Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 जूनमासः (हि.स.)।
आन्ध्रप्रदेशस्य उपमुख्यमन्त्री पवनकल्याणः मङ्गलवासरे कृषिभवने केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानेन सह भेंटं कृतवान्। अस्मिन् अवसरे उभयोः मध्ये विविधविषयेषु सार्थकः संवादः अपि अभवत्।
भेट्यानन्तरं माध्यमैः सह वार्तालापे आन्ध्रप्रदेशस्य उपमुख्यमन्त्री पवनकल्याणः अवदत् यत् तेन शिवराजसिंहचौहानं प्रति अनुरोधः कृतः यत् सः अनन्तपुरे वीबी जी राम जी योजनायाः आरम्भं करोतु। तेन उक्तं यत् अस्याः योजनायाः राजपत्रीय अधिसूचना प्रसारितं कर्तुं आन्ध्रप्रदेशः प्रथमः विशालः राज्यः अस्ति।
पवनकल्याणः अवदत् यत् शिवराजसिंहचौहानेन जुलै मासस्य प्रथमदिने अनन्तपुरं आगन्तुं स्वीकृतिः प्रदत्ता। तेन एतदपि सूचितं यत् आन्ध्रप्रदेशे श्रमिकाणां परिचयार्थं मुखपरिचयप्रणाली आरब्धा अस्ति। अस्य विषये अपि तेन केन्द्रीयमन्त्रिणे सूचना प्रदत्ता।
---------------
Hindusthan Samachar / Dheeraj Maithani