कृत्रिमबुद्धिमत्ता सहायिका अस्ति, मानवबुद्धेः विकल्पः न - श्रीडेकामहोदयः
- समर्थभारतकॉन्क्लेव-२०२६ इत्यस्य उद्घाटनं राज्यपालेन कृतम् रायपुरम्, 16 जूनमासः (हि.स.)।राज्यपालः रमेनडेकामहोदयः अद्य डॉ.सी.वी.रमन्-विश्वविद्यालयस्य बिलासपुरस्य आइसेक्ट्-इण्डिया-समूहस्य च संयुक्ततत्वावधाने आयोजितस्य द्विदिवसीयस्य समर्थभारतकॉन्क्ल
समर्थ भारत कॉन्क्लेव 2026 के उद्घाटन सत्र में राज्यपाल


- समर्थभारतकॉन्क्लेव-२०२६ इत्यस्य उद्घाटनं राज्यपालेन कृतम्

रायपुरम्, 16 जूनमासः (हि.स.)।राज्यपालः रमेनडेकामहोदयः अद्य डॉ.सी.वी.रमन्-विश्वविद्यालयस्य बिलासपुरस्य आइसेक्ट्-इण्डिया-समूहस्य च संयुक्ततत्वावधाने आयोजितस्य द्विदिवसीयस्य समर्थभारतकॉन्क्लेव-२०२६ इत्यस्य उद्घाटनसत्रे प्रमुखातिथिरूपेण सम्मिलितः अभवत्। अस्मिन् अवसरे श्रीडेकामहोदयः अवदत् यत् अद्य विश्वं द्रुतगत्या परिवर्तते, अनेन सह च प्रौद्योगिकी अपि निरन्तरं विकसति। एतादृशे काले प्रौद्योगिक्याः उपयोगः मानवकल्याणाय, सामाजिकविकासाय पर्यावरणसंरक्षणाय च भवेत्।

राज्यपालः अवदत् यत् कृत्रिमबुद्धिमत्ता आधुनिकयुगस्य महत्त्वपूर्णा प्रौद्योगिकी अस्ति, या चिकित्सा-कृषि-अर्थव्यवस्था-शिक्षा-प्रभृतीन् अनेकान् क्षेत्रान् मानवस्य सहायिका भवितुं शक्नोति, परन्तु इयं मानवबुद्धेः, संवेदनशीलतायाः नैतिकमूल्यानां च स्थानं ग्रहीतुं न शक्नोति। प्रौद्योगिकी जीवने सहायिकारूपेण स्वीकर्तव्या, न तु तां किमपि भयरूपेण स्थापनीयम्। सः युवजनान् आहूतवान् यत् ते एआइ-तकनीकं अन्याः च नवीनाः प्रौद्योगिकीः नवाचारार्थं समाजहितकार्येषु च उपयुञ्जीरन्। स्वसम्बोधने सः अन्तर्जालस्य वर्धमानोपयोगविषये अपि चिन्तां व्यक्तं कृत्वा अवदत् यत् अस्य सकारात्मकप्रभावैः सह नकारात्मकपक्षेषु अपि ध्यानं देयम्। डिजिटल्-व्यसनं न भवेत् इति प्रयासः कर्तव्यः।

राज्यपालेन उक्तं यत् मानवसभ्यतायाः विकासः सर्वदा नवाचारेण वैज्ञानिकानुसन्धानेन च अभवत्। यथा अग्निशोधनेन मानवजीवनं नूतनं दिशां प्राप्तवत्, तथैव आधुनिकं विज्ञानं प्रौद्योगिकी च भविष्यतः भारतस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। सः अवदत् यत् कृषि-स्वास्थ्य-शिक्षा-पर्यावरण-ग्रामीणविकासादिक्षेत्रेषु आधुनिकप्रौद्योगिकीनां व्यापकोपयोगः कालस्य आवश्यकता अस्ति। स्टार्टअप्-नवाचारौ केवलम् आर्थिकप्रगत्याः साधनौ न स्तः, अपि तु समाजसमस्यानां समाधानस्य प्रभावी माध्यमौ अपि स्तः। नवाचारेण दिव्याङ्गजनानां जीवनं सरलीकर्तुं शक्यते, युवजनार्थं नवीनाः रोजगारावसराः सृजितुं शक्यन्ते, समाजः च नवीनसम्भावनाभिः संयोजितुं शक्यते। सः पर्यावरणसंरक्षणस्य पर्यावरणानुकूलजीवनशैल्याः स्वीकरणस्य च आग्रहं कृतवान्।

छत्तीसगढराज्यस्य विशेषतां उल्लिख्य सः अवदत् यत् इदं समृद्धां आदिवासीसंस्कृतिं अपारसम्भावनाश्च युक्तं राज्यम् अस्ति। अत्र युवजनेषु प्रतिभायाः कोऽपि अभावः नास्ति। आवश्यकता अस्ति तेषां गुणवत्तापूर्णशिक्षया, कौशलविकासेन अवसरैः च संयोजनस्य। सः अवदत् यत् राज्यस्य अर्थव्यवस्थां सुदृढीकर्तुं कृषि-वनोत्पाद-उद्योग-सेवाक्षेत्रसहितेषु प्रत्येकक्षेत्रे वैल्यू-एडीशन्-विषये विशेषं बलं देयम्।

कार्यक्रमे विशिष्टातिथिरूपेण उपस्थितः कौशलविकास-तकनीकीशिक्षा-रोजगार-अनुसूचितजातिविकासमन्त्री गुरुखुशवन्तसाहेबमहोदयः स्वसम्बोधने अवदत् यत् प्रदेशस्य इञ्जिनीयरिंग्-महाविद्यालयेषु एआइ-शिक्षणम् आरब्धम् अस्ति। सरकारः युवजनान् सर्वथा सक्षमान् कर्तुं प्रयासं करोति, येन युवजनाः उद्योगयाचकाः न भूत्वा उद्योगदातारः भवेयुः।

कार्यक्रमे विश्वविद्यालयस्य कुलपतिः प्रोफेसर-प्रदीपकुमारघोषमहोदयः एआइ-इत्यस्य विविधायामेषु प्रकाशं पातितवान्। कॉन्क्लेवे पद्मश्री-अजयमांडवीमहोदयः विशेषरूपेण उपस्थितः आसीत्। सः अपि स्वकीयं प्रेरकम् उद्बोधनं दत्तवान्। अस्मिन् अवसरे राज्यपालेन एआइ-कौशलरथः हरितध्वजं दर्शयित्वा प्रस्थापितः। एषः रथः प्रदेशस्य विविधक्षेत्राणि गत्वा विद्यार्थिनः, शिक्षकान्, सामान्यनागरिकान् च एआइ-इत्यस्य उपयोगितां, सम्भावनाः, रोजगारावसरान् च विषये सूचनां दास्यति।

अस्मिन् अवसरे राज्यपालेन आइसेक्ट्-इत्यस्य वार्षिकप्रतिवेदनस्य कौशलरथविषयक-एआइविषयक-पुस्तकयोः च विमोचनं कृतम्।

कार्यक्रमस्य संचालनं डॉ.ज्योतिबालागुप्तामहोदया अकरोत्, आभारप्रदर्शनं च कुलसचिवः डॉ.अरविन्दकुमारतिवारीमहोदयः अकरोत्। अस्मिन् कॉन्क्लेवे विश्वविद्यालयस्य अधिकारिणः, प्राध्यापकाः, उद्योग-बैंकयोः अधिकारिणः, आइसेक्ट्-इण्डिया-ग्रुपस्य अधिकारिणः कर्मचारिणः च, बृहत्संख्यया ग्रामीणोद्यमिनः च उपस्थिताः आसन्।

Hindusthan Samachar / अंशु गुप्ता