सीआरपीएफ इत्यस्य 76तमी वाहिनी वृद्धाश्रमे अम्फल्लायां आयोजितः सांस्कृतिक कार्यक्रमः
जम्मूः, 16 जूनमासः (हि.स.)।करुणया सम्मानभावेन सामाजिकदायित्वस्य च भावनां मूर्तीकुर्वन्तः केन्द्रीय आरक्षित पुलिसबलस्य षट्सप्ततितमा वाहिन्याः अधिकारीणः जवानाश्च अद्य अम्फल्ला जम्मूनगरे स्थिते वृद्धदुर्बलजनाश्रमे विशेषं सांस्कृतिककार्यक्रमम् आयोजितवन
सीआरपीएफ की 76वीं बटालियन ने वृद्ध आश्रम अम्फल्ला में आयोजित किया सांस्कृतिक कार्यक्रम


जम्मूः, 16 जूनमासः (हि.स.)।करुणया सम्मानभावेन सामाजिकदायित्वस्य च भावनां मूर्तीकुर्वन्तः केन्द्रीय आरक्षित पुलिसबलस्य षट्सप्ततितमा वाहिन्याः अधिकारीणः जवानाश्च अद्य अम्फल्ला जम्मूनगरे स्थिते वृद्धदुर्बलजनाश्रमे विशेषं सांस्कृतिककार्यक्रमम् आयोजितवन्तः।

अस्य कार्यक्रमस्य उद्देश्यः आश्रमे निवसद्भिः वरिष्ठनागरिकैः सह समयं यापयित्वा तेषां प्रति सम्मानं स्नेहम् आत्मीयतां च प्रदर्शयितुम् आसीत्। कार्यक्रमे सहायकसमादेशिका वर्षा सिंह तथा विजय कुमार इत्येतयोः गौरवमयी उपस्थिति आसीत्। ताभ्यां सह प्रायः विंशतिः सीआरपीएफ जवानाः अपि सहभागिनः अभवन् तथा च आश्रमनिवासिभिः सह आत्मीयं संवादम् अकुर्वन्।

सार्जेण्ट संजीत कुमारस्य नेतृत्वे आयोजिते अस्मिन् कार्यक्रमे विविधाः सांस्कृतिकप्रस्तुतयः संगीतकार्यक्रमाः संवादात्मकाः क्रियाकलापाः मनोरञ्जनात्मकाः कार्यक्रमाश्च समाविष्टाः आसन्। एताभिः प्रस्तुतिभिः समग्रं वातावरणम् उल्लासेन आनन्देन भावनात्मकसौहार्देन च परिपूर्णम् अभवत्। कार्यक्रमस्य समये वरिष्ठनागरिकाः अपि उत्साहपूर्वकं सहभागं कृत्वा स्वानुभवान् साझा कृतवन्तः।

आश्रमस्य पक्षतः सचिवः डॉ दिनेश गुप्त तथा प्रबन्धनसमितेः सदस्यौ राजिन्द्र सिंह सतपाल शर्मा च सीआरपीएफ अधिकारीणः जवानांश्च हार्दिकतया स्वागतम् अकुर्वन्।

अस्मिन् अवसरे राघव गुप्त भूमि शर्मा खुशी शर्मा च अपि उपस्थिताः आसन् तथा च वरिष्ठनागरिकैः सह समयं यापयित्वा कार्यक्रमं अधिकं सार्थकं कृतवन्तः।

स्वीयसम्बोधनस्य समये वक्तारः उक्तवन्तः यत् वरिष्ठनागरिकाः समाजस्य अमूल्यधरोहराः सन्ति येषाम् अनुभवः ज्ञानं जीवनमूल्यानि च आगामिपीढीनां कृते प्रेरणास्रोताः सन्ति। ते उक्तवन्तः यत् वृद्धानां सम्मानः पालनं कल्याणं च प्रत्येकस्य समाजस्य उत्तरदायित्वम् अस्ति।

आश्रमप्रशासनेन सीआरपीएफस्य अस्याः पहलस्य प्रशंसा कृता तथा उक्तं यत् एतादृशाः कार्यक्रमाः वृद्धानां जीवनं नवीनया ऊर्जया प्रसन्नतया च पूरयन्ति। सहैव सुरक्षाबलानां समाजस्य च मध्ये परस्परविश्वासं सम्मानं सौहार्दं च दृढीकुर्वन्ति।

कार्यक्रमस्य समये आश्रमनिवासिनः सीआरपीएफ अधिकारीणां जवानानां च प्रति कृतज्ञतां प्रकटितवन्तः तथा राष्ट्रसेवायां तेषां समर्पणस्य वृद्धेषु च मानवीयसंवेदनशीलतायाः प्रशंसा कृतवन्तः। ते जवानेभ्यः शुभाशिषः मंगलकामनाश्च प्रदत्तवन्तः।

सौहार्दपूर्णे वातावरणे सम्पन्ने अस्मिन् कार्यक्रमे सर्वे सहभागिनः वरिष्ठनागरिकाणां सम्मानस्य गरिमायाः सामाजिकसमावेशस्य भावनात्मकसहयोगस्य च संवर्धनाय स्वीयां प्रतिबद्धतां पुनः प्रतिपादितवन्तः।

Hindusthan Samachar / Dheeraj Maithani