Enter your Email Address to subscribe to our newsletters

- देशव्यापि १ दशमलव ८ लक्षाधिकाः आयुष्मान आरोग्यमन्दिराणि सञ्चालितानि
- ७० कोट्यधिकाः दूरचिकित्सापरामर्शाः तथा १२० कोट्यधिकाः बाह्यरोगीसेवाः प्रदत्ताः
- मातृमृत्युदरे ऐतिहासिकी न्यूनता स्वास्थ्यसेवानां व्यापकः विस्तारः अभवत्
मीरजापुरम्, १६ जूनमासः। केन्द्रीय स्वास्थ्य परिवारकल्याण राज्यमन्त्री अनुप्रिया पटेल उक्तवती यत् स्वस्थाः नागरिकाः एव विकसितभारतस्य महत्तमा शक्तिः सन्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे अतीतेषु द्वादशवर्षेषु देशस्य स्वास्थ्यव्यवस्थायां व्यापकं परिवर्तनम् अभवत् तथा च अद्य स्वास्थ्यसेवाः ग्रामे ग्रामे प्राप्यन्ते।
सा उक्तवती यत् उत्तमा स्वास्थ्यप्रणाली केवलं जनानां जीवनस्तरस्य सुदृढ़ीकरणं न करोति अपितु देशस्य आर्थिकप्रगतिं उत्पादकत्वं च अपि सुदृढं करोति।
अनुप्रिया पटेल अवदत् यत् राष्ट्रीयस्वास्थ्यनीति २०१७ अन्तर्गतं सार्वभौमिकस्वास्थ्यसंरक्षणं लक्ष्यम् कृत्वा स्वास्थ्यसेवाः अधिकाः सुलभाः उत्तमाः गुणवत्तायुक्ताः च कृताः सन्ति। अस्यै दिशायै आयुष्मान आरोग्यमन्दिराणां स्थापना कृता अस्ति यत्र प्राथमिकचिकित्सा रोगपरीक्षणम् परामर्शः स्वास्थ्यजागरूकता च इत्यादयः सुविधाः प्रदीयन्ते।
मई २०२६ पर्यन्तं देशे १ दशमलव ८ लक्षाधिकाः आयुष्मान आरोग्यमन्दिराः सञ्चालिताः सन्ति।
सा अवदत् यत् ई संजीवनी माध्यमेन अधुना पर्यन्तं ७० कोट्यधिकाः दूरचिकित्सापरामर्शाः प्रदत्ताः सन्ति तथा च १२० कोट्यधिकाः बाह्यरोगीसेवाः उपलब्धाः कृताः सन्ति। असंसर्गजन्यरोगाः, कर्कटरोगः, मधुमेहः, उच्चरक्तचापः इत्यादीनां रोगाणां समये एव परिचयार्थं व्यापकाः परीक्षणाभियानाः अपि सञ्चालिताः सन्ति।
राज्यमन्त्री उक्तवती यत् आयुष्मान भारत प्रधानमन्त्री जनआरोग्ययोजना अन्तर्गतं कोटिशः परिवाराणां पञ्चलक्षरूप्यकपर्यन्तं स्वास्थ्यसुरक्षाकवचं प्राप्तम् अस्ति। तथा एव आयुष्मान भारत डिजिटल मिशन अन्तर्गतं ९१ कोट्यधिकाः आभा परिचयपत्राणि निर्मितानि सन्ति।
सा अवदत् यत् स्वास्थ्यक्षेत्रे कृतस्य निवेशस्य प्रभावः स्पष्टतया दृश्यते। मातृमृत्युदरे उल्लेखनीया न्यूनता अभवत् संस्थागतप्रसवाः वर्धिताः सन्ति तथा च टीकाकरणस्य क्षेत्रम् अपि व्यापकं जातम्।
सा उक्तवती यत् शासनस्य उद्देश्यं प्रत्येकं नागरिकं प्रति गुणवत्तायुक्ताः स्वास्थ्यसेवाः प्रापयित्वा स्वस्थभारत सशक्तभारत इति सङ्कल्पस्य साकारकरणम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani