काशी रेलवे स्थानकस्य विकासकार्ये अवरोधं जनयति गञ्जशाहिदामस्जिद भविष्यति भूमिसातम्
वाराणसी, 16 जूनमासः (हि. स.)।उत्तरप्रदेशस्य वाराणसी नगरे काशी रेलस्थानकस्य विकासकार्ये अवरोधं जनयन्ती अंजुमन इंतजामिया गंज शाहिदा मस्जिदं उत्तररेलवेस्य वाराणसी प्रशासनं भूमिसात् कर्तुं सज्जं जातम् अस्ति। उत्तररेलवेना मस्जिदस्य भित्तौ एकः सूचना पत्र
गंज शाहिदा मस्जिद


वाराणसी, 16 जूनमासः (हि. स.)।उत्तरप्रदेशस्य वाराणसी नगरे काशी रेलस्थानकस्य विकासकार्ये अवरोधं जनयन्ती अंजुमन इंतजामिया गंज शाहिदा मस्जिदं उत्तररेलवेस्य वाराणसी प्रशासनं भूमिसात् कर्तुं सज्जं जातम् अस्ति। उत्तररेलवेना मस्जिदस्य भित्तौ एकः सूचना पत्रः आरोपितः अस्ति तथा च मस्जिद समित्यै २० जून पर्यन्तं समयः प्रदत्तः अस्ति। तस्याः अवधेः अनन्तरं मस्जिदं भूमिसात् क्रियते।

उत्तररेलवे अधिकारी समर्थ गुप्तेन उक्तं यत् रेलवेस्य भूमौ निर्मिता अवैधा मस्जिद विकासकार्ये बाधां जनयति। अस्य कारणात् गंज शाहिदा मस्जिदस्य ध्वंसः क्रियते। मस्जिदसम्बद्धः न्यायप्रकरणः २०२४ वर्षे एव निरस्तः अभवत्। मस्जिदस्य भित्तौ सूचना पत्रः आरोपितः अस्ति। २० जून अनन्तरं रेलप्रशासनं आवश्यकां कार्यवाहीं करिष्यति।

अस्य पूर्वम् अपि काशी रेलस्थानके रेलप्रशासनेन रात्रौ एव कार्यवाही कृत्वा एका मस्जिद तथा कब्रस्थानं अपसारितम् आसीत्। तदनन्तरं काशी रेलस्थानके चतुर्थ सङ्ख्यकस्य मञ्चस्य कार्यं शीघ्रतया प्रचलति।

---------------

Hindusthan Samachar / Dheeraj Maithani