सम्पूर्णानन्द संस्कृत विश्वविद्यालये त्रि दिवसीय योग महोत्सवस्य 19 जून दिनांके भविष्यति शुभारंभः
अवाराणसी,16 जूनमासः (हि.स.)। भारतीयज्ञानपरम्परायाः संस्कृतसंस्कृतेः योगदर्शनस्य च सार्वभौमिकसन्देशस्य जनजनं प्रति प्रसारणस्य उद्देशेन वाराणस्यां स्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालये ऋषिपरम्परात् विश्वकल्याणपर्यन्तम् इति विषयकः त्रिदिवसीयः योगम
कुलपति प्रो. बिहारी लाल शर्मा


अवाराणसी,16 जूनमासः (हि.स.)। भारतीयज्ञानपरम्परायाः संस्कृतसंस्कृतेः योगदर्शनस्य च सार्वभौमिकसन्देशस्य जनजनं प्रति प्रसारणस्य उद्देशेन वाराणस्यां स्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालये ऋषिपरम्परात् विश्वकल्याणपर्यन्तम् इति विषयकः त्रिदिवसीयः योगमहोत्सवः जूनमासस्य एकोनविंशतितमदिनाङ्कात् आरभ्य आयोज्यते।

योगमहोत्सवे जूनमासस्य एकोनविंशति विंशति एकविंशतितमदिनाङ्केषु प्रातः षड्वादनात् सप्तवादनपर्यन्तं विश्वविद्यालयस्य दीक्षान्तप्राङ्गणे योगाभ्यासः भविष्यति। मङ्गलवासरे एतां सूचनां विश्वविद्यालयस्य कुलपतिः प्रो बिहारीलालशर्मा महोदयः अददात्।

तेन उक्तं यत् अन्ताराष्ट्रिययोगदिवसः केवलम् औपचारिकः आयोजनः नास्ति अपि तु भारतस्य सनातनऋषिपरम्परायाः विश्वबन्धुत्वस्य लोकमङ्गलस्य च महानभावनायाः उत्सवः अस्ति। योगः संस्कृतं संस्कृतिः च इत्येतत् महापर्व विश्वविद्यालयस्य परिचयं तस्य मूलोद्देश्यान् भारतीयसांस्कृतिकचेतनायाः गौरवपूर्णस्वरूपं च एकत्र अभिव्यञ्जयति।

कुलपतिः अवदत् यत् योगः भारतीयसंस्कृतेः अमूल्या धरोहरः अस्ति या मनुष्याय शारीरिकआरोग्यं मानसिकसन्तुलनम् आत्मिकउत्कर्षं सामाजिकसमरसतां च प्रददाति। अद्य सम्पूर्णः विश्वः योगम् अङ्गीकृत्य भारतीयज्ञानपरम्परायाः वैज्ञानिकतां प्रासङ्गिकतां सार्वभौमिकतां च स्वीकरोति। योगः केवलं स्वास्थ्यस्य साधनं नास्ति अपि तु जीवनस्य उत्कृष्टतां अनुशासनं आत्मबोधं च प्रति नयन्ती समग्रजीवनपद्धतिः अस्ति।

तेन उक्तं यत् सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः भारतीयसंस्कृतेः संस्कृतभाषायाः योगस्य ऋषिचिन्तनस्य च जीवत्परम्पराणां संवाहकः संरक्षकः च केन्द्रम् अस्ति। विश्वविद्यालयस्य उद्देश्यः केवलं ज्ञानप्रदानं नास्ति अपि तु संस्कारसंस्कृतेः मानवकल्याणस्य च शाश्वतादर्शान् समाजे प्रतिष्ठापयितुम् अपि अस्ति। एतस्याः दृष्टेः आधारेण आयोजितः अयं योगमहोत्सवः युवपीढीं भारतीयजीवनमूल्यैः स्वस्थजीवनशैलया आध्यात्मिकचेतनया च सह संयोजयितुं सार्थकः प्रयासः अस्ति।

प्रो शर्मा महोदयः अवदत् यत् वर्तमानकाले वर्धमानेषु तनावेषु प्रतिस्पर्धासु असन्तुलितजीवनशैल्यां मानसिकचुनौतिषु च योगः सम्पूर्णमानवजात्यै आशायाः स्वास्थ्यस्य शान्तेः च अत्यन्तप्रभावी माध्यमरूपेण उदितः अस्ति। योगः शरीरमनसोरात्मनश्च समन्वयस्य विज्ञानम् अस्ति यः व्यक्तिं स्वयम् समाजं संस्कृत्या विश्वं बन्धुत्वसद्भावभावनया च संयोजयति। एतदेव कारणम् अस्ति यत् अद्य योगः विश्वमानवजातये भारतीयसंस्कृतेः प्रभावशालितमः उपहारः अभवत्।

तेन सूचितं यत् योगविज्ञानपाठ्यक्रमस्य निदेशकस्य डॉ दुर्गेशपाठकस्य निर्देशनसंयोजनयोः अन्तर्गतं आयोजिते अस्मिन् महोत्सवे योगाचार्यः राजकुमारमिश्रः आदित्यकुमारः च प्रतिभागिभ्यः योगाभ्यासं प्राणायामं ध्यानं स्वस्थजीवनपद्धतेः प्रशिक्षणं च प्रदास्यतः। कार्यक्रमे विश्वविद्यालयस्य शिक्षकाः अधिकारिणः कर्मचारिणः विद्यार्थिनः तेषां परिवारजनाश्च सक्रियसहभागिता सुनिश्चिताऽस्ति।----------------

Hindusthan Samachar / Dheeraj Maithani