Enter your Email Address to subscribe to our newsletters

पलवलम्, 16 जूनमासः (हि.स.)।
केन्द्रीयशासनस्य तथा राज्यशासनस्य द्वादशवर्षीयस्य गौरवपूर्णकार्यकालस्य पूर्णतायाः उपलक्ष्ये सञ्चालितस्य विशेषजनसम्पर्क तथा जनजागरूकताअभियानस्य अन्तर्गतं मङ्गलवासरे जनपदस्तरीयस्य विकसितभारतसंकल्पसम्मेलनस्य आयोजनं नेताजी सुभाषचन्द्रबोसक्रीडाङ्गणस्य अन्तःक्रीडागारे कृतम्। यस्मिन् भारतीयजनतापार्टीदलस्य जिलाध्यक्षः विपिन बैंसला मुख्यातिथिरूपेण दीपप्रज्वलनं कृत्वा कार्यक्रमस्य विधिवत् शुभारम्भं कृतवान्।
अस्मिन् अवसरे उपस्थितेभ्यः जनभ्यः विकसितभारतस्य तथा नशामुक्तभारत नशामुक्तहरियाणा इति संकल्पः अपि ग्राह्यः कृतः।
भारतीयजनतापार्टीदलस्य जिलाध्यक्षः विपिन बैंसला विकसितभारतसंकल्पसम्मेलनं सम्बोधयन् अवदत् यत् गतद्वादशवर्षेषु प्रधानमन्त्रिणा नरेन्द्रमोदिना देशस्य विकासस्य आत्मनिर्भरता च नवीनाः आयामाः स्थापिताः, येषां प्रशंसा सम्पूर्णविश्वे क्रियते।
तेन उक्तं यत् केन्द्रे प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा हरियाणायां मुख्यमन्त्रिणः नायबसिंहसैनेः नेतृत्वे शासनस्य निरन्तरं तृतीयवारं सत्तायाम् आगमनं शासनस्य प्रति जनतायाः विश्वासस्य महत्तमं प्रमाणम् अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतदेशेन विकासे, सुशासने, सुरक्षाक्षेत्रे तथा जनकल्याणे नवीनाः कीर्तिमानाः स्थापिताः सन्ति।
अस्मिन् अवसरे कृषिकिसानकल्याणविभागः, महिलाबालविकासविभागः, डीआरडीए जनपदपरिषद्, जनपदसमाजकल्याणविभागः, जनपदकल्याणविभागः, परिवारपरिचयपत्रविभागः, जनपदरेडक्रॉस संस्था तथा अन्यैः विभागैः प्रदर्शनीस्थानानि स्थापयित्वा जनानां कृते योजनानां विषये सूचना प्रदत्ता।
मुख्यातिथिः विपिन बैंसला प्रदर्शनीस्थानानां अवलोकनं कृत्वा तासां विषये सूचनां प्राप्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani