मतदातृ सूची पुनरीक्षण अभियाने तीव्रता, 17 जून दिनांकं यावत् शत-प्रतिशतं गणना प्रपत्र वितरणस्य लक्ष्यम्
पौड़ी, 16 जूनमासः (हि.स.)। जनपदे सञ्चालितस्य विशेषसघनपुनरीक्षणकार्यक्रमस्य एसआईआर इत्यस्य समीक्षां कुर्वन् अपरजिलाधिकारी उपजिलानिर्वाचनाधिकारी च एफ आर चौहान महोदयः सर्वान् सम्बन्धिताधिकारिणः जूनमासस्य सप्तदशदिनाङ्कपर्यन्तं गणनापत्राणां शतप्रतिशतव
बेटा में एसआईआर प्रगति की समीक्षा करते एडीएम।


पौड़ी, 16 जूनमासः (हि.स.)।

जनपदे सञ्चालितस्य विशेषसघनपुनरीक्षणकार्यक्रमस्य एसआईआर इत्यस्य समीक्षां कुर्वन् अपरजिलाधिकारी उपजिलानिर्वाचनाधिकारी च एफ आर चौहान महोदयः सर्वान् सम्बन्धिताधिकारिणः जूनमासस्य सप्तदशदिनाङ्कपर्यन्तं गणनापत्राणां शतप्रतिशतवितरणं सुनिश्चितं कर्तुं निर्देशान् अददात्।

उपजिलानिर्वाचनाधिकारी चौहान महोदयः अवदत् यत् मतदातृसूचीम् अद्यतनां त्रुटिरहितां अधिकविश्वसनीयां च कर्तुं निर्धारितसमयसीमायाः अन्तर्गतं सर्वलक्ष्याणां प्राप्तिः सुनिश्चितीक्रियेत तथा न्यूनप्रगतियुक्तेषु मतदानकेन्द्रेषु विशेषध्यानं दीयताम्।

अपरजिलाधिकाऱिणः अध्यक्षतायाम् आयोजितायां समीक्षाबैठके जनपदस्य समस्ताः उपजिलाधिकारिणः निर्वाचकपञ्जीकरणाधिकारिणः तहसीलदाराः सहायकनिर्वाचकपञ्जीकरणाधिकारिणः तथा अतिरिक्तसहायकनिर्वाचकपञ्जीकरणाधिकारिणः सहभागिनः अभवन्। बैठके विधानसभा क्षेत्रवार विशेषसघनपुनरीक्षणकार्यक्रमस्य प्रगतेः विस्तृतसमीक्षा कृता।

तेन निर्देशाः दत्ताः यत् निर्वाचनायोगेन निर्धारितसमयसीमायाः अनुरूपं गणनापत्राणां वितरणं सर्वथा पूर्णं क्रियेत। येषु विधानसभाक्षेत्रेषु मतदानकेन्द्रेषु च प्रगतिः अपेक्षाकृतं न्यूनाऽस्ति तत्र विशेषाभियानं सञ्चाल्य कार्ये गतिः वर्धनीया तथा दैनिकस्तरे निगरानी सुनिश्चितीकरणीय।

उपवेशने मतदानकेंद्रस्तरीयाधिकारिभिः बीएलओ इत्यैः क्रियमाणस्य डिजिटाइजेशनकार्यस्य अपि समीक्षा कृता। अपरजिलाधिकारी निर्देशं दत्तवान् यत् येषु बूथेषु डिजिटाइजेशनकार्यं प्रारम्भं न जातम् तत्र तत्क्षणमेव आरम्भः कारयितव्यः। तेन उक्तं यत् गणनापत्रवितरणं डिजिटाइजेशनकार्यं च समानगत्या अग्रे नीत्वा विशेषसघनपुनरीक्षणकार्यक्रमः समयबद्धरूपेण पूर्णः क्रियेत।

अपरजिलाधिकारी सर्वान् अधिकारिणः नियमितसमीक्षया प्रभाविसमन्वयेन सततनिगराण्या च निर्धारितावधौ शतप्रतिशतलक्ष्यप्राप्त्यर्थं निर्देशान् अददात्।

उपवेशने संयुक्तमजिस्ट्रेट गौरीप्रभा, सहायकनिर्वाचनाधिकारी शान्तिलालशाह सहित अन्ये अधिकारी आभासीमाध्यमेन उपस्थिताः अभवन्।

Hindusthan Samachar / Dheeraj Maithani