Enter your Email Address to subscribe to our newsletters


सीवानम्, 16 जूनमासः (हि.स.)। समस्तीपुरं गच्छन्त्यां विशेषरेलयानस्य संख्या ०४७३१ मध्ये मङ्गलवासरे एका महिला यात्रिणी अकस्मात् प्रसवपीडया पीडिता अभवत्। स्थितेः गम्भीरतां दृष्ट्वा सीवान रेलस्थानके रेलसुरक्षाबलेन त्वरिततां प्रदर्श्य ऑपरेशन मातृशक्ति इत्यस्य अन्तर्गतं माता नवजातशिशु च सुरक्षितरूपेण चिकित्सासहायता प्रदत्ता।
महिलायात्रिण्या रेलयाने एव कन्यायाः जन्म दत्तम्। प्राप्तसूचनानुसारं समस्तीपुरजनपदस्य धलमतपुरग्रामनिवासी संजीत साहनी स्वपुत्र्या विद्या कुमाऱ्या सह सिरसातः समस्तीपुरं गच्छन् आसीत्। यात्रायाः समये रेलयानस्य सामान्ययानकक्षे विद्या कुमारी प्रसवपीडया पीडिता अभवत्। तस्मिन् समये रेलयानं सीवान रेलस्थानकम् प्राप्तम् यत्र रेलसुरक्षाबलाय अस्याः घटनायाः सूचना प्रदत्ता।
सूचना प्राप्तमात्रे पाली प्रभारी सुरेशकुमारयादवः हेड कांस्टेबल धर्मप्रकाशमिश्रः तथा कांस्टेबल विनोदकुमारवर्मा घटनास्थले उपस्थिताः अभवन् तथा च महिलां तत्कालं रेलयानात् अवतार्य प्राथमिकचिकित्सासहायतां प्रदत्तवन्तः। ततः अनन्तरं रोगिवाहनं आहूय माता नवजाता कन्या च उत्तमचिकित्सार्थं सीवान सदर चिकित्सालयं प्रेषिते।
परिजनैः उक्तं यत् यात्राकाले एव महिलया स्वस्थायाः पुत्र्याः जन्म प्रदत्तम्। रेलसुरक्षाबलस्य शीघ्रकार्यवाह्या माता नवजाता च समये चिकित्सासहायता प्राप्तवत्यौ।
रेलवे अधिकाारिभिः उक्तं यत् ऑपरेशन मातृशक्ति इत्यस्य उद्देश्यं यात्राकाले गर्भवतीमहिलानां तथा नवजातशिशूनां सुरक्षा सुनिश्चितुं अस्ति। सीवान रेलस्थानके रेलसुरक्षाबलस्य तत्परतया पुनः एकवारम् अस्य अभियानस्य उपयोगिता सिद्धा अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani