अमित शाहेनामिलन्मुख्यमंत्री धामी, प्रदेशस्य विकासप्रकरणेषु संजाता चर्चा
नव दिल्ली, 16 जूनमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी नूतनदिल्ली नगरे केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाह महोदयेन सह शिष्टाचारभेटं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा उत्तराखण्डस्य विकासेन जनकल्याणेन च सम्बद्धेषु वि
मुख्यमंत्री पुष्कर सिंह धामी गृह मंत्री अमित शाह से भेंट करते हुए।


नव दिल्ली, 16 जूनमासः (हि.स.)।

उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी नूतनदिल्ली नगरे केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाह महोदयेन सह शिष्टाचारभेटं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा उत्तराखण्डस्य विकासेन जनकल्याणेन च सम्बद्धेषु विविधेषु महत्त्वपूर्णविषयेषु विस्तृततया चर्चा कृता।

मङ्गलवासरे नूतनदिल्लीस्थिते कर्तव्यभवने अभवत् अस्यां भेटायां मुख्यमन्त्री धामी महोदयेन राज्ये प्रवर्तमानानां विकासयोजनानां आधारभूतसंरचनाविस्तारस्य आपदाप्रबन्धनस्य पर्यटनस्य निवेशस्य जनहितसम्बद्धविषयाणां च सूचना केन्द्रीयमन्त्रिणे प्रदत्ता। तेन राज्यहितसम्बद्धेषु विषयेषु केन्द्रशासनतः निरन्तरं प्राप्यमाणस्य सहयोगस्य कृते कृतज्ञता अपि व्यक्तिता।

भेटायाः समये केन्द्रीयगृहमन्त्री अमितशाह महोदयः राज्यस्य सर्वाङ्गीणविकासाय आवश्यकान् सुझावान् दत्तवान् तथा विविधविषयेषु मार्गदर्शनम् अकरोत्।

मुख्यमन्त्री धामी अवदत् यत् केन्द्रशासनस्य सहयोगेन मार्गदर्शनेन च उत्तराखण्डे विकासकार्याणि अधिकं वेगं प्राप्स्यन्ति तथा जनकल्याणकारीयोजनानां लाभः अन्तिमजनपर्यन्तं प्रापितः भविष्यति।

मुख्यमन्त्रिणा धामिना एतन्मेलनं सकारात्मकम् इति कथयित्वा उक्तं यत् राज्यस्य विकासेन सम्बद्धेषु अनेकषु महत्त्वपूर्णविषयेषु सार्थका चर्चा अभवत्।

Hindusthan Samachar / Dheeraj Maithani