वीरशिरोमणि-महाराणाप्रताप-जयन्त्यां मुख्यमन्त्रिणा कृतं नमनम्, प्रदेशवासिभ्यः दत्ताः शुभकामनाः
जयपुरम्, 17 जूनमासः (हि.स.)।मुख्यमन्त्री भजनलालशर्मा वीरशिरोमणेः महाराणाप्रतापस्य जयन्त्याः ज्येष्ठशुक्लतृतीयायाः शुभावसरे मुख्यमन्त्रिनिवासे वीरशिरोमणेः महाराणाप्रतापस्य चित्रे पुष्पाञ्जलिम् अर्पयित्वा श्रद्धया तं प्रणमितवान्। अस्मिन् अवसरे मुख्य
महाराणा प्रताप के चित्र पर पुष्पांजलि करते हुए कम भजनलाल शर्मा।


जयपुरम्, 17 जूनमासः (हि.स.)।मुख्यमन्त्री भजनलालशर्मा वीरशिरोमणेः महाराणाप्रतापस्य जयन्त्याः ज्येष्ठशुक्लतृतीयायाः शुभावसरे मुख्यमन्त्रिनिवासे वीरशिरोमणेः महाराणाप्रतापस्य चित्रे पुष्पाञ्जलिम् अर्पयित्वा श्रद्धया तं प्रणमितवान्।

अस्मिन् अवसरे मुख्यमन्त्री प्रदेशवासिभ्यः महाराणाप्रतापजयन्त्याः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्। सः उक्तवान् यत् वीरशिरोमणिः महाराणाप्रतापः महान् योद्धा परमस्वाभिमानी स्वतन्त्रताप्रेमी च आसीत्। सत्यस्य धर्मस्य राष्ट्रहितस्य च मार्गे चरन् सः मातृभूमेः रक्षणार्थम् आत्मगौरवरक्षणार्थं च स्वस्य सर्वस्वं समर्पितवान्। तस्य जीवनं साहसस्य त्यागस्य स्वाभिमानस्य राष्ट्रभक्तेः च अनुपमम् उदाहरणम् अस्ति।

मुख्यमन्त्री उक्तवान् यत् महाराणाप्रतापस्य आदर्शाः संघर्षाश्च अद्यापि देशवासिनः राष्ट्रहिते कार्यं कर्तुं राष्ट्रस्य सार्वभौमत्वरक्षणाय च प्रेरयन्ति। तेन प्रदेशवासिनः आहूताः यत् ते महाराणाप्रतापस्य आदर्शान् आत्मसात् कृत्वा देशसेवायाः सङ्कल्पं गृह्णीयुः येन देशः प्रदेशश्च उन्नतेः नूतनान् शिखरान् स्प्रष्टुं शक्नुतः।

---------------

Hindusthan Samachar / Dheeraj Maithani