अमितशाहः वडोदरा-मार्ग-दुर्घटनायां शोकं व्यक्तवान्
नवदिल्ली, १७ जूनमास: (हि.स.)। केन्द्रीय-गृहमन्त्री सहकारितामन्त्री च अमितशाहः गुजरातस्य वडोदरा-नगरे जातायां मार्ग-दुर्घटनायां गहनं शोकं व्यक्तवान्। सः शोकसन्तप्त-परिवारान् प्रति संवेदनां प्रकटयित्वा आहतानां शीघ्र-स्वास्थ्यलाभस्य कामनाम् अकरोत्। तथा
केंद्रीय गृह मंत्री अमित शाह (फाइल फोटो)।


नवदिल्ली, १७ जूनमास: (हि.स.)। केन्द्रीय-गृहमन्त्री सहकारितामन्त्री च अमितशाहः गुजरातस्य वडोदरा-नगरे जातायां मार्ग-दुर्घटनायां गहनं शोकं व्यक्तवान्। सः शोकसन्तप्त-परिवारान् प्रति संवेदनां प्रकटयित्वा आहतानां शीघ्र-स्वास्थ्यलाभस्य कामनाम् अकरोत्। तथा च स्थानीय-प्रशासनाय आहतानां समुचित-चिकित्सां सर्वप्रकार-सहायतां च सुनिश्चितुं निर्देशान् अददात्।

अमितशाहः बुधवासरे एक्स माध्यमेन प्रकाशिते सन्देशे उक्तवान् यत् गुजरातस्य वडोदरा-जारोद-मार्गे जाता दुर्घटना अत्यन्तं दुःखदा अस्ति। येषां जनानां अस्यां दुर्घटनायां स्वजनाः निधनं गताः, तेषां परिवारान् प्रति मम संवेदनाः सन्ति इति सः अवदत्।

उल्लेखनीयम् अस्ति यत् बुधवासरे प्रातःकाले गुजरातस्य वडोदरा-नगरे जातायां मार्ग-दुर्घटनायां षट् जनाः मृता:, एकत्रिंशत् जनाश्च आहताः अभवन्।

Hindusthan Samachar / Divya Ranjan