एकलव्य आदर्श विद्यालय गढ़ियायामेकादशीकक्षायां प्रवेश हेतवे 20 जून यावत् आवेदनम् आमंत्रितम्
जगदलपुरम्, 17 जूनमासः (हि.स.)।जनपदस्य लोहण्डीगुडा विकासखण्डान्तर्गतस्य गढिया स्थले सञ्चालिते एकलव्य आदर्श आवासीयविद्यालये शैक्षणिकसत्रे २०२६-२७ अन्तर्गतं कक्षा ११ कला विज्ञान वाणिज्यसङ्काययोः रिक्तासु कुल ३२ आसन्दीषु लैटरल एन्ट्री माध्यमेन प्रवेशं
एकलव्य आदर्श विद्यालय गढ़िया में कक्षा 11 वीं में प्रवेश हेतु  20 जून तक आवेदन आमंत्रित


जगदलपुरम्, 17 जूनमासः (हि.स.)।जनपदस्य लोहण्डीगुडा विकासखण्डान्तर्गतस्य गढिया स्थले सञ्चालिते एकलव्य आदर्श आवासीयविद्यालये शैक्षणिकसत्रे २०२६-२७ अन्तर्गतं कक्षा ११ कला विज्ञान वाणिज्यसङ्काययोः रिक्तासु कुल ३२ आसन्दीषु लैटरल एन्ट्री माध्यमेन प्रवेशं प्राप्तुम् इच्छन्तीभ्यः केवलम् अनुसूचितजनजातिवर्गस्य छात्रीभ्यः आगामी २० जून पर्यन्तम् आवेदनपत्राणि आमन्त्रितानि सन्ति।

प्रवेशप्रक्रिया कक्षा १० मध्ये प्राप्ताङ्कानाम् आधारेण निर्मितायाः मेरिटसूच्याः अनुसारं सम्पादिता भविष्यति। आवेदनपत्रेण सह अनुसूचितजनजातिवर्गस्य जातिप्रमाणपत्रम्, कक्षा १० अङ्कसूची, निवासप्रमाणपत्रम्, आधारकार्डस्य स्वप्रमाणितच्छायाप्रतिः तथा एकं नवीनं वर्णयुक्तं पासपोर्टपरिमाणस्य छायाचित्रम् अपि समर्पणीयम्।

इच्छुकाः अभ्यर्थिन्यः विद्यालये कार्यालयीयसमये आवेदनपत्रं प्राप्तुं शक्नुवन्ति तथा आवश्यकदस्तावेजैः सह तत् समर्पयितुं शक्नुवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani