प्रचण्डोष्णतायाः कारणेन सारणे अष्टमकक्षापर्यन्तं शैक्षणिकगतिविधिषु जूनमासस्य विंशतितमं दिनांकं यावत् प्रतिबन्धः
सारणम्, 17 जूनमासः (हि.स.)। जनपदे निरन्तरं वर्धमानं तापमानं मध्याह्नसमये च प्रचण्डोष्णतां दृष्ट्वा जनपदप्रशासनेन बालकानां स्वास्थ्यसंरक्षणार्थं दृढं पदक्षेपं स्वीकृतम्। जनपदाधिकारी वैभव श्रीवास्तव स्वाधिकारस्य प्रयोगं कृत्वा भारतीयनागरिकसुरक्षासंह
सारण में कक्षा आठ तक के स्कूल 20 जून तक बंद


सारणम्, 17 जूनमासः (हि.स.)। जनपदे निरन्तरं वर्धमानं तापमानं मध्याह्नसमये च प्रचण्डोष्णतां दृष्ट्वा जनपदप्रशासनेन बालकानां स्वास्थ्यसंरक्षणार्थं दृढं पदक्षेपं स्वीकृतम्।

जनपदाधिकारी वैभव श्रीवास्तव स्वाधिकारस्य प्रयोगं कृत्वा भारतीयनागरिकसुरक्षासंहिता २०२३ इत्यस्य धारा १६३ अन्तर्गतं जनपदस्य सर्वेषु शासकीयेषु निजीविद्यालयेषु प्रीस्कूलेषु आङ्गनबाडीकेन्द्रेषु कोचिंगसंस्थासु च कक्षा ८ पर्यन्तानां शैक्षणिकक्रियाकलापानां उपरि २० जून पर्यन्तं पूर्णप्रतिबन्धं घोषितवान्।

प्रशासनेन निर्गतादेशानुसारं कक्षा ८ उपरितनाः कक्षाः केवलं मध्याह्नपूर्वं ११ वादनपर्यन्तमेव सञ्चालितुं शक्यन्ते।

जनपदाधिकारेण स्पष्टतया उक्तं यत् वर्धमानतापमानस्य कारणात् बालकानां स्वास्थ्ये प्रतिकूलप्रभावस्य सम्भावना वर्तते इति दृष्ट्वा एषः निर्णयः गृहीतः। अयं आदेशः तत्क्षणप्रभावेन प्रवर्तितः अस्ति।