देशे अद्यावधि २१.७६ मिलियन-हेक्टेयर-परिमिता भूमि: पुनर्स्थापिता - भूपेन्द्र-यादवः
नवदिल्ली, १७ जूनमासः (हि.स.)। केन्द्रीय-मन्त्री भूपेन्द्रयादव: अवदत् यत् देशे अद्यावधि २१.७६ मिलियन-हेक्टेयर-परिमिता भूमिः पुनर्स्थापिता अस्ति, तथा २०३० तमे वर्षे २६ मिलियन-हेक्टेयर-भूमेः सुधारस्य लक्ष्यं निर्धारितम् अस्ति। एतत् लक्ष्यं वैश्विक-बॉन
“इंडियन फॉरेस्टर” का विशेष संस्करण जारी करते केन्द्रीय मंत्री भूपेन्द्र यादव


नवदिल्ली, १७ जूनमासः (हि.स.)। केन्द्रीय-मन्त्री भूपेन्द्रयादव: अवदत् यत् देशे अद्यावधि २१.७६ मिलियन-हेक्टेयर-परिमिता भूमिः पुनर्स्थापिता अस्ति, तथा २०३० तमे वर्षे २६ मिलियन-हेक्टेयर-भूमेः सुधारस्य लक्ष्यं निर्धारितम् अस्ति। एतत् लक्ष्यं वैश्विक-बॉन-चैलेंज-प्रतिबद्धतायाः भागः अस्ति।

सः बुधवासरे इन्दिरा-पर्यावरण-भवने “विश्व-मरुस्थलीकरण-तथा-शुष्कता-निवारण-दिवसः” इत्यस्मिन् आयोजने सम्बोधयन् उक्तवान् यत् भारते भूमिक्षय-नियन्त्रणाय विविधाः योजनाः द्रुतगत्या क्रियन्ते। एतेषु जल-संरक्षणम्, वनीकरणम्, तथा वैज्ञानिक-प्रौद्योगिकी-आधारित-निरीक्षण-प्रणाल्यः अन्तर्भवन्ति।

सः अवदत् यत् “एक-पेड़-माँ-के-नाम” इति अभियानेन अद्यावधि देशे २६६ कोट्यधिकाः वृक्षाः रोपिताः सन्ति, यत् पर्यावरण-संरक्षणदिशि महत्त्वपूर्णं पादनम् अस्ति।

तथा च सः अवदत् यत् अरावली-ग्रीन-वॉल-प्रकल्पः वित्तीय-वर्षे २०२५–२६ मध्ये स्वनिर्धारित-लक्ष्येभ्यः उत्कृष्टं प्रदर्शनं कृतवान् अस्ति। देशे वनीकरणम्, जलग्रहण-विकासः तथा कृषि-भूमि-सुधार-कार्यक्रमाणां माध्यमेन विस्तीर्ण-भूमि-पुनर्स्थापन-कार्याणि प्रचलन्ति।

अस्मिन् कार्यक्रमे एतदपि सूचितम् यत् भारतस्य २९.७७ प्रतिशतं भूमिः मरुस्थलीकरणेन अथवा भूमिक्षयेण प्रभावितम् अस्ति।

अस्मिन् अवसरे “इण्डियन-फॉरेस्टर” इत्यस्य विशेषाङ्कः तथा भारतस्य द्वितीया प्रगति-प्रतिवेदनिका अपि प्रकाशिते, यस्मिन् भूमिपुनर्स्थापन-कार्याणां विस्तृतं विवरणं प्रदत्तम्। कार्यक्रमे विविध-राज्यानां अधिकारी, अन्ताराष्ट्रिय-संस्थानां प्रतिनिधयः, वैज्ञानिकाः तथा पर्यावरण-विशेषज्ञाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan