Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, १७ जूनमास: (हि.स.)। प्रधानमन्त्रिण: नरेन्द्रमोदी-महोदयस्य नेतृत्वे केन्द्र-सर्वकारस्य द्वादश-वर्ष-पूर्णतायाः अवसरे पाटलिपुत्रे भाजपया आयोजिते ‘प्रबुद्ध-सम्मेलने’ केन्द्रीय-कृषि-किसान-कल्याण-मन्त्रिणा शिवराजसिंह-चौहानेन उक्तं यत् विगत-१२ वर्षेषु भारतं विकासस्य, सुशासनस्य, सुरक्षायाः आत्मनिर्भरतायाः च क्षेत्रेषु ऐतिहासिकाः उपलब्धयः प्राप्तवान्।
सः अवदत् यत् अद्य भारतं विश्वमञ्चे सशक्तं, आत्मविश्वासयुक्तं तथा प्रभावशाली राष्ट्ररूपेण प्रतिष्ठितम् अस्ति। स्वामी-विवेकानन्दस्य विचारान् स्मरन् सः उक्तवान् यत् भारतस्य पुनर्जागरणस्य स्वप्नं प्रधानमन्त्रिणा नरेन्द्रमोदिना साकारं क्रियते।
चौहानः उक्तवान् यत् पूर्वं भारतं भ्रष्टाचार-लुंठनै: सह सम्बद्धतया दृश्यते स्म, किन्तु अद्य देशस्य छवि पूर्णतया परिवर्तिता अस्ति। भारतम् अद्य निवेशे, नवाचारे, आर्थिक-विकासे तथा वैश्विक-नेतृत्वे च अग्रणी राष्ट्रम् अस्ति।
राष्ट्रीय-सुरक्षां प्रति सः अवदत् यत् अद्य भारतं आतंकवादस्य विरुद्धं निर्णायक-कार्यवाहीं कर्तुं समर्थम् अस्ति, तथा देशस्य सुरक्षा-सम्मानयोः विषये कश्चन अपि सन्धि: न स्वीक्रियते।
सः अवदत् यत् ‘विकसित-भारतस्य’ निर्माणाय समाजेन किञ्चन महत्त्वपूर्णं संकल्पं कर्तव्यम् अस्ति—‘एक-राष्ट्रम्-एक-निर्वाचनम्’, स्वदेशी-वस्तूनां उपयोगवर्धनं तथा नागरिककर्तव्यपालनम्। एते एव विकसित-भारतस्य आधारस्तम्भाः सन्ति।
अन्ते सः विश्वासं व्यक्तवान् यत् केन्द्र-सर्वकारः बिहारस्य विकासाय, कृषक-समृद्ध्यै, ग्रामीण-आधारभूत-संरचनायाः विस्ताराय तथा गरीब-कल्याणाय निरन्तरं कार्यं करिष्यति।
अस्मिन् अवसरे बिहार-राज्यस्य कृषि-मन्त्री विजय-सिन्हा, सहकारिता-मन्त्री रामकृपाल-यादवः, विधायकाः संजीव-चौरसिया, रत्नेश-कुमारः, संजय-गुप्तः, प्रदेश-महामन्त्री नितिन-अभिषेकः, प्रीति-शेखरः, जनपद-अध्यक्षः रूप-नारायणः, पूर्व-विधायकः पवन-जायसवालः, प्रभाकर-मिश्रः, हरि-भूषण-ठाकुर-बचौलः, सीता-साहू इत्यादयः तथा प्रदेशस्य अनेके पदाधिकारीणः कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan