Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, १७ जूनमासः (हि.स.)। कर्करोगस्य सफल-चिकित्सायाः प्रमुखमाधारः समये रोगस्य परिचयः अस्ति, किन्तु अधिकांश-रोगिणः तदा एव चिकित्सालयम् आगच्छन्ति यदा रोगः अत्यधिकं प्रसृतः भवति। अस्वास्थ्यकर-आहारस्य वर्धमानः प्रयोगः, असन्तुलित-भोजनम्, शारीरिक-व्यायामस्य अभावः, स्थूलता, नियमित-स्वास्थ्य-परीक्षणस्य उपेक्षा तथा प्रारम्भिक-लक्षणानाम् अवहेलनं कर्करोग-प्रकरणानां वृद्धेः प्रमुख-कारणानि भवन्ति।
एतद् फोर्टिस-कर्करोग-संस्थानस्य, मोहाली-नगरस्य, वरिष्ठ-परामर्शदाता, जठरान्त्र-शल्य-कर्करोग-विशेषज्ञः तथा रोबोटिक-शल्यचिकित्सकः डॉ.जितेन्द्र-रोहिलः उक्तवान्।
डॉ. रोहिलेन शिमलानगरे उक्तं यत् यदि कर्करोगस्य निदानं प्रारम्भिक-अवस्थायाम्, विशेषतः प्रथम-चरणे भवति, तर्हि चिकित्सायाः सफलतायाः सम्भावना अत्यधिका भवति। किन्तु जागरूकतायाः अभावेन प्रमादेन च बहवः रोगिणः तदा चिकित्सकान् उपगच्छन्ति यदा रोगः शरीरस्य अन्येषु भागेष्वपि प्रसृतः भवति। एतादृशेषु प्रकरणेषु चिकित्सा अधिका जटिला व्ययबहुला च भवति।
तेन उक्तं यत् समीपे एव मोहालीस्थे फोर्टिस-अस्पताले त्रिषष्टिवर्षीयायाः महिलायाः स्यूडोमायक्सोमा-पेरिटोनी इति दुर्लभ-कर्करोगस्य सफल-चिकित्सा कृता। एषः रोगः अत्यन्तं दुर्लभः मन्यते, यस्य केवलम् एकम् अथवा द्वे प्रकरणे दशलक्ष-जनसंख्यायां दृश्येते। सा महिला दीर्घकालात् उदर-शोथेन, अल्प-क्षुधया तथा मलोत्सर्ग-प्रवृत्तेः परिवर्तनस्य समस्याभिः पीडिता आसीत्।
डॉ. रोहिलेन उक्तं यत् परीक्षणे ज्ञातं यत् कर्करोगः अपेण्डिक्सतः आरभ्य उदरस्य आन्तरिक-आवरणं, अर्थात् पेरिटोनियम्, यावत् प्रसृतः आसीत्। अस्मिन् रोगे म्यूकिन् इति जेली-सदृशः पदार्थः उदरस्य अन्तः सञ्चीयते, येन उदरस्य शोथः भवति तथा आन्त्राणि अन्ये च अवयवाः प्रभाविताः भवन्ति। पीईटी-सीटी-स्कैन परीक्षणे उदरस्य विविधेषु भागेषु अर्बुद-सञ्चयस्य लक्षणानि दृष्टानि। ततः चिकित्सक-दलेन साइटोरिडक्टिव-शल्यचिकित्सा तथा हाइपरथर्मिक-इण्ट्रापेरिटोनियल-कीमोथेरेपी इत्यस्याः शल्यचिकित्सायाः निर्णयः कृतः।
तेन उक्तं यत् एषा जटिला शल्यचिकित्सा प्रायः नव-होरापर्यन्तं प्रचलिता। अस्यां कर्करोगग्रस्त-भागानां निष्कासनेन सह यकृतः तथा आन्त्रेभ्यः अर्बुदानि अपि निष्कासितानि। अनन्तरं प्रायः नवत्यधिक-निमेषपर्यन्तम् उदरस्य अन्तः उष्ण-कीमोथेरेपी प्रदत्ता। सीआरएस-हाइपेक इयं चिकित्सा अस्य प्रकारस्य कर्करोगस्य विश्वव्यापि मानक-चिकित्साविधिः मन्यते। अस्याः शल्यचिकित्सायाः सामान्यतः प्रायः त्रिलक्ष-रूप्यकाणां व्ययः भवति। सफल-चिकित्सानन्तरं दश-दिनेषु रोगिणी चिकित्सालयात् विसर्जिता, अधुना च सा सामान्य-जीवनं यापयति।
अन्ते डॉ.रोहिलेन जनान् आहूतं यत् शरीरे दृश्यमाणस्म कस्यापि असामान्य-लक्षणस्य उपेक्षा न क्रियताम्, नियमित-स्वास्थ्य-परीक्षणं क्रियताम्, स्वस्थ-जीवनशैली च स्वीक्रियताम्। तेषां मते कर्करोगात् संरक्षणे सफल-चिकित्सायां च जागरूकता तथा समये परीक्षणमेव सर्वाधिकं प्रभावीसाधनम् अस्ति।
Hindusthan Samachar / Divya Ranjan