नोएडा-अन्ताराष्ट्रिय-विमानस्थानकात् मालवाहनसेवा अपि प्रारब्धा, चेन्नईनगरात् नोएडानगरं प्रति प्रथमं विमानम् आगतम्
नोएडानगरम्, जूनमासः १७ दिनाङ्कः (हि.स.)। नोएडा-अन्ताराष्ट्रिय-विमानस्थानकात् बुधवासरे मालवाहनसेवा अपि प्रारब्धा। चेन्नईनगरात् आगतस्य प्रथमविमानस्य विमानस्थानके प्रातःकाले जलतोपैः स्वागतं कृतम्। एतदर्थम् एफकॉम-नामिकया संस्थया सह सन्धिः कृतः। एषा संस
नोएडा इंटरनेशनल एयरपोर्ट से शुरू हुई कार्गो उड़ान


नोएडानगरम्, जूनमासः १७ दिनाङ्कः (हि.स.)। नोएडा-अन्ताराष्ट्रिय-विमानस्थानकात् बुधवासरे मालवाहनसेवा अपि प्रारब्धा। चेन्नईनगरात् आगतस्य प्रथमविमानस्य विमानस्थानके प्रातःकाले जलतोपैः स्वागतं कृतम्। एतदर्थम् एफकॉम-नामिकया संस्थया सह सन्धिः कृतः। एषा संस्था मालवाहन-विमानसेवां प्रददाति तथा विशेषमालपरिवहन-आपूर्ति-शृङ्खला-सेवानां कृते बोइङ्ग ७३७-८०० प्रकारस्य मालवाहकविमानानां उपयोगं करोति। एषैव संस्था विमानस्थानकात् मालवाहनविमान-यात्राणां सञ्चालनं करिष्यति।

प्राप्तसूचनानुसारम् एयर-इण्डिया-सैट्स-संस्थया मालवाहनविमानयात्राणां कृते विमानस्थानके सर्वा सज्जा कृता। संस्थया नोएडा-विमानस्थानकं मध्यपूर्वदेशैः, दक्षिणपूर्व-एशियादेशैः तथा यूरोपखण्डेन सह सम्बद्धं कर्तुं योजना निर्मिता। नियमितमालवाहनविमानसेवायाः आरम्भानन्तरं नोएडा-विमानस्थानके सुदृढ-विमानमालवाहनव्यवस्थायाः निर्माणं शीघ्रतया प्रवर्तिष्यते।एयर-इण्डिया-सैट्स-संस्थया नोएडा-अन्ताराष्ट्रिय-विमानस्थानके प्रायः अशीत्यधिकैकरे क्षेत्रे मालवाहनकेन्द्रं निर्मितम्। अत्र राष्ट्रिय-अन्ताराष्ट्रिय-मालवाहनसुविधाः उपलब्धाः भविष्यन्ति। प्रथमचरणे वार्षिकमालवाहनक्षमता २.५५ लक्ष-मीट्रिक-टन-परिमिता अस्ति। अत्र मालवाहन-प्रतीक्षालयः, भण्डारगृहाणि, ट्रक-परिवहन-संरचना तथा डिजिटल-प्रबन्धन-प्रणाली निर्मिता अस्ति। तत्र मालपरिवहनप्रतिनिधीनां कृते भण्डारगृहसुविधा, सङ्ग्रहकेन्द्राणि, ट्रकयानानाम् आवागमनव्यवस्था तथा डिजिटल-प्रेषणसुविधाः विकसिताः सन्ति।उल्लेखनीयम् अस्ति यत् नोएडा-अन्ताराष्ट्रिय-विमानस्थानकात् मङ्गलवासरे द्वयोः नवीनयोः नगरयोः कृते अपि विमानसेवा प्रारब्धा। अकासा-एयरलाइन्स-संस्थया नवी-मुम्बईनगराय तथा इण्डिगो-संस्थया जम्मूनगराय विमानयात्रा आरब्धा। अकासा-एयरलाइन्स-संस्थायाः प्रथमविमानं गतदिने नवी-मुम्बई-अन्ताराष्ट्रिय-विमानस्थानकात् नोएडानगरम् आगतं, ततः अनन्तरं नोएडातः नवी-मुम्बईं प्रति प्रस्थितम्। अधुना नोएडा-अन्ताराष्ट्रिय-विमानस्थानकात् बेङ्गलूरु, हैदराबाद, अमृतसर, जम्मू तथा नवी-मुम्बई इत्येतानि नगराणि प्रति प्रतिदिनं विमानसेवा उपलब्धा भविष्यति।

Hindusthan Samachar / Divya Ranjan