हिमाचलप्रदेशस्य १७ सीबीएसई-सम्बद्ध-शासकीय-विद्यालयेषु चिकित्सा-, अचिकित्सा- तथा वाणिज्य-पाठ्यक्रमाः प्रारभ्यन्ते
शिमलानगरम्, १७ जूनमासः (हि.स.)। हिमाचलप्रदेशस्य सीबीएसई-सम्बद्धेषु शासकीय-विद्यालयेषु अध्ययनरतानां विद्यार्थिनां कृते एषः महत्त्वपूर्णः निर्णयः अस्ति। अधुना बहवः छात्राः चिकित्सा-अचिकित्सा- अथवा वाणिज्य-विषयाणां अध्ययनार्थम् अन्येषु विद्यालयेषु प्र
हिमाचल सरकार


शिमलानगरम्, १७ जूनमासः (हि.स.)। हिमाचलप्रदेशस्य सीबीएसई-सम्बद्धेषु शासकीय-विद्यालयेषु अध्ययनरतानां विद्यार्थिनां कृते एषः महत्त्वपूर्णः निर्णयः अस्ति। अधुना बहवः छात्राः चिकित्सा-अचिकित्सा- अथवा वाणिज्य-विषयाणां अध्ययनार्थम् अन्येषु विद्यालयेषु प्रवेशं कर्तुं दीर्घदूरं गन्तुं वा न बाध्याः भविष्यन्ति। हिमाचलप्रदेश-सर्वकारेण राज्यस्य १७ सीबीएसई-सम्बद्ध-शासकीय-वरिष्ठ-माध्यमिक-विद्यालयेषु नवीनानां शैक्षणिक-पाठ्यक्रमाणां प्रारम्भस्य निर्णयः कृतः। अस्याः योजनायाः अन्तर्गतं २०२६–२७ शैक्षणिक-सत्रात् विविधेषु विद्यालयेषु चिकित्सा-,अचिकित्सा- तथा वाणिज्य-संकायाः प्रारभ्यन्ते।

विद्यालय-शिक्षा-विभागेन निर्गतायाः अधिसूचनायाः अनुसारम् अयं निर्णयः ग्रामीण-दूरवर्तिक्षेत्रेषु शिक्षावसर-विस्तारस्य उद्देशेन कृतः। विभागेन उक्तं यत् अद्यापि बहुषु विद्यालयेषु विद्यार्थिभ्यः विषय-विकल्पाः सीमिताः सन्ति। अतः स्वाभिलषित-विषयस्य अध्ययनार्थं तेषां अन्येषु विद्यालयेषु गन्तव्यम् अभवत्। नवीन-पाठ्यक्रमाणां प्रारम्भानन्तरं छात्राः स्वक्षेत्रीय-विद्यालयेष्वेव अध्ययनं कृत्वा उच्च-शिक्षायाः सुदृढां सिद्धतां कर्तुं समर्थाः भविष्यन्ति।

अधिसूचनानुसारं चम्बा-जनपदस्य किहार-विद्यालये वाणिज्य- तथा चिकित्सा-संकायौ प्रारभ्येते। हमीरपुर-जनपदस्य बरा-विद्यालये चिकित्सा-संकायः, बड़सर- तथा बटरान-विद्यालययोः वाणिज्य-चिकित्सा-संकायौ, सोहारी-विद्यालये च वाणिज्य-, चिकित्सा- तथा अचिकित्सा-संकायाः प्रारभ्यन्ते। काङ्गड़ा-जनपदस्य कुंसल- तथा अपर-लम्बा-ग्राम-विद्यालययोः वाणिज्य-, चिकित्सा- तथा अचिकित्सा-विषयाः उपलब्धाः भविष्यन्ति, संलेटी-विद्यालये च वाणिज्य-संकायः प्रारभ्यते। मण्डी-जनपदस्य कोलनी-धलवां-विद्यालये वाणिज्य- तथा चिकित्सा-संकायौ उद्घाट्येते।

एतदतिरिक्तं किन्नौर-जनपदस्य निचार-विद्यालये चिकित्सा- तथा अचिकित्सा-संकायौ, कुल्लू-जनपदस्य सराहन-विद्यालये वाणिज्य-, चिकित्सा- तथा अचिकित्सा-संकायाः, शिमला-जनपदस्य बलदेयां-विद्यालये वाणिज्य-संकायः, सैंज-विद्यालये चिकित्सा-संकायः, ननखड़ी-विद्यालये च चिकित्सा- तथा अचिकित्सा-संकायौ प्रारभ्येते। सिरमौर-जनपदस्य कफोटा-विद्यालये तथा ऊना-जनपदस्य बधेड़ा-विद्यालये अपि चिकित्सा- तथा अचिकित्सा-संकायौ प्रारभ्येते।

सर्वकारस्य विश्वासः अस्ति यत् अस्य निर्णयस्य फलस्वरूपं ग्रामीण-क्षेत्राणां विद्यार्थिनः स्वसमीपस्थेषु विद्यालयेष्वेव उत्तमान् शैक्षणिक-विकल्पान् प्राप्स्यन्ति। तेन सह अभियांत्रिकी-चिकित्सा-वाणिज्य- तथा अन्येषां व्यावसायिक-पाठ्यक्रमाणां अध्ययनाय दृढः आधारोऽपि तेषां कृते उपलब्धो भविष्यति।

Hindusthan Samachar / Divya Ranjan