छत्तीसगढ़स्य वरिष्ठ-आईपीएस-अधिकारी सुन्दरराज-पी. राष्ट्रिय-अनुसन्धान-अभिकरणे महानिरीक्षक-पदे नियुक्तः
रायपुरम्, १७ जून (हि.स.)। छत्तीसगढ़-राज्यस्य वरिष्ठः आईपीएस-अधिकारी सुन्दरराज-पी. राष्ट्रियस्तरे महान्तं दायित्वम् अलभत्। भारत-सर्वकारेण तस्य राष्ट्रिय-अनुसन्धान-अभिकरणे महानिरीक्षकपदे नियुक्तिः कृता। केन्द्रीय-गृह-मन्त्रालयेन एतस्मिन् विषये छत्तीस
छत्तीसगढ़ कैडर के वरिष्ठ आईपीएस अधिकारी पी. सुंदरराज


रायपुरम्, १७ जून (हि.स.)। छत्तीसगढ़-राज्यस्य वरिष्ठः आईपीएस-अधिकारी सुन्दरराज-पी. राष्ट्रियस्तरे महान्तं दायित्वम् अलभत्। भारत-सर्वकारेण तस्य राष्ट्रिय-अनुसन्धान-अभिकरणे महानिरीक्षकपदे नियुक्तिः कृता। केन्द्रीय-गृह-मन्त्रालयेन एतस्मिन् विषये छत्तीसगढ़-सर्वकाराय पत्रं सम्प्रेष्य तस्य प्रतिनियुक्तेः सूचना प्रदत्ता।

गृह-मन्त्रालयेन छत्तीसगढ़-सर्वकारात् अनुरोधः कृतः यत् सुन्दरराज-पी. शीघ्रमेव कार्यमुक्तः क्रियताम्, येन सः स्वस्य नवीन-दायित्वस्य कार्यभारं शीघ्रं स्वीकर्तुं शक्नुयात्।

सुन्दरराज-पी. छत्तीसगढ़-आरक्ष-विभागस्य अत्यन्तम् अनुभवीषु रणनीतिनिपुणेषु च अधिकारिषु अन्यतमः मन्यते। सः २००३-वर्षीय-आईपीएस-समूहस्य अधिकारी अस्ति। विशेषतः बस्तर-सम्भागे नक्सल-विरोधि-अभियानानां प्रभावी-नेतृत्वेन तेन विशिष्टा ख्यातिः अर्जिता। दीर्घकालं संवेदनशील-क्षेत्रेषु कार्यं कुर्वता तेन सुरक्षा-बलैः सह उत्कृष्टः समन्वयः स्थापितः तथा च अनेकानि महत्त्वपूर्णानि अभियानानि सफलतया सम्पन्नानि।

सुन्दरराज-पी.भूमिसम्बद्धः, दूरदर्शी, परिणामाभिमुखः अधिकारी इति प्रसिद्धः। तस्य नेतृत्वे न केवलं नक्सलीय-गतिविधिषु प्रभावी नियन्त्रणं स्थापितम्, अपितु आत्मसमर्पण-नीतिः अपि नूतनं वेगम् अलभत्। तस्य रणनीत्या कार्यशैल्या च प्रेरिताः बहवः नक्सलवादिनः हिंसामार्गं परित्यज्य समाजस्य मुख्यधारायां प्रविष्टवन्तः।

बस्तर-सम्भागस्य इव समस्यापूर्णे क्षेत्रे तेन सुरक्षा-अभियानैः सह ग्रामवासिनां विश्वास-सम्पादनाय तथा विकास-कार्याणां प्रवर्धनाय अपि विशेषः प्रयत्नः कृतः। अस्य परिणामस्वरूपं सुरक्षा-व्यवस्था सुदृढा अभवत् तथा सामान्यजनानां प्रशासने सुरक्षा-बलेषु च विश्वासः अपि वर्धितः।

मूलतः तमिलनाडु-राज्यस्य कोयम्बत्तूर-नगरस्य निवासी सुन्दरराज-पी. २७ फरवरी १९८० दिनाङ्के जातः। तेन कृषिविज्ञाने स्नातक-उपाधिः प्राप्ता। ततः सिविल-सेवा-परीक्षां उत्तीर्य भारतीय-आरक्षक-सेवायां प्रविष्टः।

एनआईए-मध्ये महानिरीक्षक-पदे तस्य नियुक्तेः आदेशः निर्गतस्य अनन्तरं छत्तीसगढ़-आरक्ष-विभागस्य प्रशासनिक-अधिकारिणः तथा समाजस्य विविधवर्गीयाः जनाः तस्मै शुभकामनाः प्रेषितवन्तः। एषा नियुक्तिः छत्तीसगढ़-कैडर-इत्यस्य कृते गौरवस्य सम्मानस्य च विषयः मन्यते।

Hindusthan Samachar / Divya Ranjan