गरियाबन्द-जनपदाय अद्य प्राप्स्यति षट्शतकोटि-रूपयकाधिकाणां विकासकार्याणां उपहारः
रायपुरम्, 17 जूनमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य सूरजपुरं गरियाबन्दजनपदं च प्रवासं करिष्यति। सः गरियाबन्दजनपदाय ६०० कोटि ३१ लक्ष ३२ सहस्ररूप्यकाणां व्ययेन सम्पन्नानाम् आहत्य ७५ विकासकार्याणां महान् उपहारं प्रदास्यति। मुख्यमन्त्रिकार्य
मुख्यमंत्री विष्णु देव साय,फाइल फोटो


रायपुरम्, 17 जूनमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य सूरजपुरं गरियाबन्दजनपदं च प्रवासं करिष्यति। सः गरियाबन्दजनपदाय ६०० कोटि ३१ लक्ष ३२ सहस्ररूप्यकाणां व्ययेन सम्पन्नानाम् आहत्य ७५ विकासकार्याणां महान् उपहारं प्रदास्यति।

मुख्यमन्त्रिकार्यालयात् प्राप्तानुसारं निर्धारितकार्यक्रमेण मुख्यमन्त्री विष्णुदेवसायः प्रातः ११ वादने रायपुरनगरात् सूरजपुराय प्रस्थितः भविष्यति। तत्र नवनिर्वाचिताध्यक्षस्य पार्षदानां च शपथग्रहणसमारोहे सहभागित्वं करिष्यति। कार्यक्रमस्य अनन्तरं मध्याह्ने प्रायः एकवादने सः गरियाबन्दाय प्रस्थास्यति।

विधानसभाध्यक्षस्य डॉक्टर रमनसिंह इत्यस्य उपस्थितौ मुख्यमन्त्री सायः मध्याह्ने प्रायः त्रिवादने पुलिसपरेडमैदाने विकासकार्याणां शिलान्यासलोकार्पणकार्यक्रमं करिष्यति।

मुख्यमन्त्री चतुर्वादने नवनिर्मितस्य कचना धुरवा गोंडवाना भवनस्य लोकार्पणकार्यक्रमे सहभागित्वं करिष्यति। अपरं दर्रिपारा ग्रामे आयोजिते आदिवासीसमाजस्य कार्यक्रमे अपि भागं गृह्णीयात्। सः नवनिर्मितस्य कचना ध्रुवा गोंडवाना भवनस्य लोकार्पणं करिष्यति।

अस्मिन् कार्यक्रमे कृषेः आदिमजातिकल्याणविभागस्य मन्त्री रामविचार नेताम अन्ये स्थानीयजनप्रतिनिधयः वरिष्ठाधिकारिणश्च सहभागित्वं करिष्यन्ति।

Hindusthan Samachar / Dheeraj Maithani