Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ जूनमास: (हि.स.)। गतवर्षे इण्डिगो-विमानसेवायाः व्यवधानानन्तरं नागरिक-विमानन-मन्त्रालयेन स्थापितः यात्रि-सहायता-नियन्त्रण-कक्षः विमानयात्रिणां कृते महत् सौविध्यम् आनयत्। अनेन माध्यमेन ७५ सहस्राधिकासु प्राप्तासु सूचनासु ७३ सहस्राधिकानां समाधानं सन्तोषजनकरूपेण कृतम्। अधुना तस्य कार्यदक्षतां शतप्रतिशतं कर्तुं कृत्रिम-बुद्धिमत्तायाः उपयोगोऽपि भविष्यति।
नागरिक-विमानन-सचिवः समीरकुमार-सिन्हा अद्य अत्र उड्डयन-भवने पत्रकारैः सह संवादं कुर्वन् अवदत् यत् यात्रि-सहायता-नियन्त्रण-कक्षस्य प्रारम्भिक-सफलताम् अनुसृत्य तस्य कार्यदक्षतायाः अधिकवृद्ध्यर्थं विचारः क्रियते। अस्मिन् प्रयोजने कृत्रिम-बुद्धिमत्तायाः अपि उपयोगः भविष्यति।
सः अवदत् यत् पीएसीआर ९८-प्रतिशत-सफलतादरेण ७३,००० अधिकानां यात्रिणां सूचनानां समाधानं कृतवान्। यात्रिणां समस्याः व्यवधानकाले शीघ्रतया निराकर्तुं नागरिक-विमानन-मन्त्रालयेन एषः २४×७ कार्यरतः नियन्त्रण-कक्षः स्थापितः। अस्मिन् कक्षे विमानसेवा-संस्थाः, विमानस्थानकानि, नागर-विमानन-महानिदेशालयः, नागर-विमानन-सुरक्षा-ब्यूरो तथा भारतीय-विमानपत्तन-प्राधिकरणस्य प्रतिनिधयः समन्वितरूपेण कार्यं कुर्वन्ति, येन संकटग्रस्तानां यात्रिणां त्वरित-सहायतां सुनिश्चितीभवति।
एयरसेवा-मञ्चात्, ई-मेलद्वारा, सामाजिक-माध्यमैः तथा दूरभाष-सम्पर्कद्वारा प्राप्ताः सूचना: त्वरित-कार्यवाह्यर्थं पीएसीआर-कक्षे संगृह्यन्ते। गतस्य डिसम्बर-मासस्य १० दिनाङ्कात् आरभ्य अद्यावधि ७३,००० अधिकानां यात्रिणां समस्याः निराकृताः सन्ति, तथा च समग्र-निवारण-दरः ९८ प्रतिशतः अभवत्।
नागरिक-विमानन-मन्त्रालयस्य अधिकारिणः प्रतिदिनं पीएसीआर-कक्षस्य कार्यप्रगतिं समीक्षन्ते। वरिष्ठ-अधिकारिणां कृते शिकायतानिवारणस्य निरीक्षणार्थं प्रत्येक-पाली-अनुसारं तान्त्रिक-डैशबोर्ड इति निर्मितः अस्ति। ये विषयाः त्वरिततया न निराक्रियन्ते, ते उच्चाधिकारिभ्यः प्रेष्यन्ते, आवश्यकतायां च नीतिगत-मार्गदर्शनम् अपि प्राप्यते।
पीएसीआर-कक्षस्य कार्यस्य निरीक्षणं त्रिषु स्तरेषु क्रियते—सहायक-अनुभाग-अधिकारी, अवर-सचिवः/अनुभाग-अधिकारी तथा संयुक्त-सचिवः। सक्षम-प्राधिकारिणे नियमितरूपेण प्रतिवेदनानि समर्प्यन्ते। एतेन यात्रि-कल्याणे, हितधारक-समन्वये तथा उत्तरदायित्वे मन्त्रालयस्य प्रतिबद्धता अधिकं सुदृढा भवति। मन्त्रालयेन प्रतिज्ञायते यत् भारतस्य नागरिक-विमानन-व्यवस्था प्रत्येकं यात्रिणं प्रति सहानुभूत्या, कार्यदक्षतया तथा पारदर्शितया कार्यं निरन्तरं करिष्यति।
विमानस्थानकेषु न्यूनमूल्येन खाद्यपदार्थानाम् उपलब्धतां विषये सचिवः अवदत् यत् ‘उड्डयन-कैफे’ नाम्नः भोजनालयाः उद्घाट्यन्ते, यत्र २० रूप्यकैः चायः तथा ४० रूप्यकैः अभ्यूष: उपलब्धः भवति। अधुना देशस्य ३५–३६ विमानस्थानकेषु एते कैफे आरब्धाः सन्ति। विमानेषु खाद्यपेय-पदार्थानां अत्यधिक-मूल्येन विक्रयस्य विषये सः उक्तवान् यत् अस्मिन् विषयः अद्यापि विचाराधीनः अस्ति।
Hindusthan Samachar / Divya Ranjan