Enter your Email Address to subscribe to our newsletters

कोलकाता, 17 जूनमासः (हि. स.)। कोलकातानगरस्य ऐतिहासिकाध्यात्मिकमहत्त्वयुक्ते बागबाजारस्थे मातुः घाटे बुधवासरे प्रातःकाले मुख्यमन्त्री शुभेन्दु अधिकारी स्वच्छताभियाने सहभागित्वं कृतवान्। तेन सह राज्यस्य मन्त्रिणी अग्निमित्रा पाल उद्योगमन्त्री तापस राय तथा सूचना प्रसारणराज्यमन्त्रिणी पूर्णिमा चक्रवर्ती अपि उपस्थिताः आसन्। अस्मिन् अवसरे अग्निमित्रा पाल तथा पूर्णिमा चक्रवर्ती स्वहस्ताभ्यां मार्जनीं गृहीत्वा घाटस्य स्वच्छताकार्ये सहभागित्वं कृतवन्त्यौ।
राज्यसर्वकारेण गङ्गाघाटानां स्वच्छतां प्रति विशेषाभियानं सञ्चाल्यते तथा च तस्यैव क्रमस्य अन्तर्गतं बागबाजारस्य मातुः घाटे व्यापकस्वच्छताभियानस्य आयोजनं कृतम्। मुख्यमन्त्री घाटस्य स्वच्छताव्यवस्थायाः निरीक्षणं कृत्वा अधिकारिणः स्वच्छतायाः संरक्षणार्थं आवश्यकनिर्देशान् प्रदत्तवान्।
बागबाजारस्य मातुः घाटः पश्चिमबङ्गराज्यस्य प्रसिद्धतमेषु श्रद्धालुसम्बद्धेषु च घाटेषु परिगण्यते। आध्यात्मिकदृष्ट्या अस्य विशेषं महत्त्वम् अस्ति। जनश्रुत्यानुसारं माता शारदा देवी स्वामिनः रामकृष्णपरमहंसस्य ब्रह्मलीनत्वानन्तरं प्रायः द्वादशवर्षपर्यन्तं बागबाजारे न्यवसत् तथा च अस्मिन् एव गङ्गाघाटे स्नानं कुर्वती आसीत्। अस्य ऐतिहासिकधार्मिकविरासतायाः कारणात् अत्र प्रतिदिनं बहुसंख्यकाः श्रद्धालवः भक्ताश्च आगच्छन्ति।
मुख्यमन्त्री शुभेन्दु अधिकारी स्पष्टतया संकेतं दत्तवान् यत् अस्य महत्त्वपूर्णस्य धार्मिकस्थलस्य स्वच्छताविषये सर्वकारः कस्यापि प्रकारस्य प्रमादस्य सहनं न करिष्यति। तेन उक्तं यत् श्रद्धालूनां सुविधायै घाटस्य गरिमारक्षणाय च नियमितस्वच्छता सम्यक्परिरक्षणं च सुनिश्चितं भविष्यति।
Hindusthan Samachar / Dheeraj Maithani