केन्द्रीयमन्त्री शिवराजसिंह-चौहानः गोलघर-परिसरे स्वच्छताभियानम् अचालयत्, विधायक-आवास-परिसरे वृक्षारोपणम् अकरोत्
पाटलिपुत्रम्, १७ जूनमास: (हि.स.)। केन्द्रस्य राजग-सर्वकारस्य द्वादश-वर्ष-पूर्णतायाः अवसरे पाटलिपुत्रे स्वच्छताभियानम्, वृक्षारोपणम् तथा ‘प्रगति-पथ-यात्रा’ आयोजिता। केन्द्रीयमन्त्री शिवराजसिंह-चौहानः गोलघर-परिसरे स्वच्छताभियानस्य नेतृत्वं कृत्वा जना
पौधारोपण


स्वच्छता अभियान


पाटलिपुत्रम्, १७ जूनमास: (हि.स.)। केन्द्रस्य राजग-सर्वकारस्य द्वादश-वर्ष-पूर्णतायाः अवसरे पाटलिपुत्रे स्वच्छताभियानम्, वृक्षारोपणम् तथा ‘प्रगति-पथ-यात्रा’ आयोजिता। केन्द्रीयमन्त्री शिवराजसिंह-चौहानः गोलघर-परिसरे स्वच्छताभियानस्य नेतृत्वं कृत्वा जनान् स्वच्छतायाः प्रति जागरूकान् अकरोत्।

तदनन्तरं केन्द्रीयमन्त्री विधायक-आवास-परिसरे आयोजिते वृक्षारोपण-कार्यक्रमे सहभागी अभवत्। तत्र सः वृक्षारोपणं कृत्वा पर्यावरण-संरक्षणस्य, जलवायु-सन्तुलनस्य तथा हरित-भविष्य-निर्माणस्य सन्देशम् अददात्। कार्यक्रमे उपस्थितैः जनप्रतिनिधिभिः, अधिकारिभिः, कार्यकर्तृभिः च वृक्षारोपणं कृत्वा तेषां संरक्षणस्य संकल्पः स्वीकृतः।

वृक्षारोपण-कार्यक्रमे शिवराजसिंह-चौहानः अवदत् यत् पर्यावरण-संरक्षणम् अद्यतनकाले अत्यन्तम् आवश्यकम् अस्ति। वृक्षारोपणं केवलम् औपचारिकता नास्ति, अपितु भावि-वंशानां सुरक्षित-भविष्यस्य आधारशिला अस्ति। तेन जनाः स्वजीवने न्यूनातिन्यूनम् एकं वृक्षं रोपयित्वा तस्य नियमित-पालनं कुर्वन्तु इति प्रार्थितम्।

अनन्तरं केन्द्रीयमन्त्रिणः नेतृत्वे ‘प्रगति-पथ-यात्रा’ आयोजिता। सा नवीन-किशोर-प्रसाद-सिन्हा-पथात् प्रारभ्य मुक्तिधाम, जेपी-गङ्गा-पथ, पटना-घाटः, पीएमसीएच-नवभवनम्, अटल-पथ-गोलम्बरम् इत्यादीन् मार्गान् अतिक्रम्य दीघापर्यन्तम् अगच्छत्। यात्रायां बहुसंख्यकाः भाजपा-कार्यकर्तारः, जनप्रतिनिधयः, सामान्य-नागरिकाश्च सहभागी अभवन्।

तदनन्तरं विधायक-आवास-परिसरे वृक्षारोपणं कृत्वा सः पर्यावरण-संरक्षणस्य सन्देशम् अददात्। अनन्तरं ‘प्रगति-पथ-यात्रा’ आयोजिता, यस्य उद्देश्यः केन्द्र-सर्वकारस्य विकास-कार्याणि तथा जनकल्याणकारी-योजनाः जनसामान्यं प्रति प्रापयितुम् आसीत्। कार्यक्रमे बहवः जनप्रतिनिधयः, अधिकारीणः, भाजपा-कार्यकर्तारः तथा नागरिकाः सहभागीन: अभवन्।

Hindusthan Samachar / Divya Ranjan