दिल्ली सर्वकारः 22 जूनतः शुभारप्स्यते एकवृक्षो मातृनाम्ना वृक्षारोपणाभियानम्
नवदिल्ली, 17 जूनमासः (हि.स.)। दिल्लीशासनं राष्ट्रियराजधानीक्षेत्रे हरितक्षेत्रस्य वर्धनार्थं पर्यावरणसंरक्षणस्य च जनान्दोलनरूपेण विकासार्थं जूनमासस्य द्वाविंशतितः दिनात् आरभ्य एकः वृक्षः मातुः नाम्ना दिल्लीमहावृक्षारोपणअभियानम् आरभितुं सज्जम् अस्
दिल्ली सरकार द्वारा जारी पर्यावरण संरक्षण अभियान चित्र।


नवदिल्ली, 17 जूनमासः (हि.स.)।

दिल्लीशासनं राष्ट्रियराजधानीक्षेत्रे हरितक्षेत्रस्य वर्धनार्थं पर्यावरणसंरक्षणस्य च जनान्दोलनरूपेण विकासार्थं जूनमासस्य द्वाविंशतितः दिनात् आरभ्य एकः वृक्षः मातुः नाम्ना दिल्लीमहावृक्षारोपणअभियानम् आरभितुं सज्जम् अस्ति। मुख्यमन्त्री रेखागुप्ता सामाजिकमाध्यममञ्चे एक्स इत्यत्र प्रकाशिते सन्देशे उक्तवती यत् सप्ततिलक्षपादपानां रोपणलक्ष्येन सह एषा योजना दिल्लीनगरस्य हरितावरणवृद्धये प्रदूषणनियन्त्रणप्रयत्नानां सुदृढीकरणाय आगामिपीढीनां कृते स्वच्छस्वस्थपर्यावरणस्य सुनिश्चितीकरणाय च महत्त्वपूर्णं पदम् अस्ति।

अस्य अभियानस्य अन्तर्गतं पादपाः दिल्लीशासनेन प्रदास्यन्ते। मुख्यमन्त्री सर्वान् पर्यावरणरक्षकान् इव अस्य जनसहभागितामूलकस्य अभियानस्य सह संलग्नान् भवितुं हरितदिल्लीनिर्माणे स्वयोगदानं दातुं च आवेदितवती।

अस्य अभियानस्य अन्तर्गतं ईफॉरेस्टग्रीनड्राइवपोर्टल इति नाम्ना जालमञ्चः आरम्भिष्यते यस्य माध्यमेन नागरिकाः केवलं स्वस्य दूरवाणीक्रमाङ्कं नाम निवासस्थानं च अभिलेख्य पञ्जीकरणं कर्तुं शक्नुवन्ति। पञ्जीकृतानां जनानां कृते निःशुल्कपादपप्रदानं वृक्षारोपणार्थं समयनिर्धारणसुविधा भूस्थानचिह्नितछायाचित्रारोपणविकल्पः तथा ग्रीनवॉरियर ईप्रमाणपत्रं प्रदास्यते। अस्य अभियानस्य अन्तर्गतं जागरूकताअभियानकाले वृक्षरथस्य माध्यमेन जुलाईमासस्य चतुर्थदिनपर्यन्तं विविधेषु क्षेत्रेषु जनसम्पर्ककार्यक्रमाः आयोज्यन्ते। सहैव कार्यक्रमाणां प्रत्यक्षप्रसारणेन अङ्कीयसहभागितया च अधिकाधिकजनाः अभियाने संयोजयिष्यन्ते।

अभियानस्य द्वितीयचरणस्य आरम्भः जुलाईमासस्य प्रथमसप्ताहे भविष्यति। अस्मिन् काले दिल्लीशासनं मेगारिजप्लाण्टेशनड्राइव इति कार्यक्रमम् आयोजयिष्यति यस्य अन्तर्गतं द्विलक्षपञ्चाशत्सहस्राणि पादपानि रोपितानि भविष्यन्ति। वृक्षारोपणकार्यक्रमाः पीबीजीग्राउण्ड सेण्ट्रलरिज साउथसेण्ट्रलरिज नानकपुरारिज इत्यादिषु अन्येषु च रिजक्षेत्रेषु आयोज्यन्ते।

तृतीयचरणे जुलाईमासस्य मध्यभागे मेगाप्लाण्टेशनप्रोग्राम इति कार्यक्रमस्य आयोजनं भविष्यति। अस्मिन् राजधानीनगरस्य एकपञ्चाशत् स्थलेषु एकस्मिन्नेव काले वृक्षारोपणं भविष्यति यस्मिन् प्रायः एकादशसहस्रजनानां सहभागितालक्ष्यं निर्धारितम् अस्ति। रोहिणीस्थितः स्वर्णजयन्तीपार्कः अस्य अभियानस्य प्रमुखकेन्द्रं भविष्यति।

दिल्लीशासनेन नागरिकाः प्रति आवाहनं कृतम् यत् ते एकं वृक्षं मातुः नाम्ना तथा एकं वृक्षं दिल्लीनगरस्य हरितावरणस्य नाम्ना रोपयेयुः तथा च अधिकाधिकसंख्यया अस्मिन् अभियाने सहभागीभवेयुः।

-----------

Hindusthan Samachar / Dheeraj Maithani