Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 17 जूनमासः (हि.स.)।
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः राष्ट्रियस्वयंसेवकसंघस्य तृतीयसरसंघचालकस्य बालासाहबदेवरसस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिम् अर्पितवान्। श्रीप्रधानः सामाजिकमाध्यमे लिखितवान्
राष्ट्रीयस्वयंसेवकसंघस्य तृतीयसरसंघचालकः संगठनशक्तेः राष्ट्रनिष्ठविचारधारायाश्च जनजनपर्यन्तं प्रसारकः श्रद्धेयः बालासाहबदेवरसः। तस्य पुण्यतिथौ तस्मै विनम्रश्रद्धाञ्जलिः। तस्य जीवनं त्यागस्य अनुशासनस्य राष्ट्रनिर्माणस्य प्रति च अखण्डसमर्पणस्य तादृशम् उदाहरणम् आसीत् यत् अद्यापि समाजं एकतायाः सेवायाः कर्तव्यनिष्ठायाश्च मार्गे अग्रे गन्तुं प्रेरयति।
---------------
Hindusthan Samachar / Dheeraj Maithani