Enter your Email Address to subscribe to our newsletters

पटना, 17 जूनमासः (हि.स.) मुख्यमन्त्री सम्राटचौधरी तथा केन्द्रीयकृषिकिसानकल्याणग्रामीणविकासमन्त्री शिवराजसिंहचौहानः बुधवासरे लोकसेवकावासस्थिते सङ्कल्पसभागारे राज्यस्य कृषिग्रामीणक्षेत्राभ्यां सम्बद्धानां विविधविषयाणाम् उपरि उच्चस्तरीयाम् उपवेशनम् अकुरुताम्।
उपवेशने मुख्यमन्त्री उक्तवान् यत् केन्द्रराज्ययोः डबलइञ्जनसहयोगः बिहारराज्यं सर्वतोमुखविकासस्य नूतनशिखराणि प्रति नयिष्यति।
उपवेशने मुख्यमन्त्री उक्तवान् यत् केन्द्रशासनेन बिहारस्य विकासार्थं बैकलॉगराशिः विमोचिता अस्ति। अस्य सहयोगस्य कृते केन्द्रशासनस्य प्रति विशेषकृतज्ञतां व्यक्तयामि। मनरेगायोजनायाः अवशिष्टदेयकप्रदानस्य निर्णयः ग्रामीणश्रमिकाणां हितं सर्वोपरि निधाय कृतः। मनरेगायोजनायाः सर्वासां लम्बितराशीनां भुगतानं केन्द्रशासनस्य सहयोगेन जूनमासस्य त्रिंशत्तमदिनात् पूर्वं कर्तुम् अनुमतिः जाता अस्ति। राज्ये ग्रामीणविकासाय नूतनदिशां प्रदात्री महत्त्वाकाङ्क्षिणी वीबीजीरामजीयोजना आगामि जुलाईमासस्य प्रथमदिनात् पूर्णरूपेण प्रवर्तिष्यते।
मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिगृहयोजनायाः द्वितीयसंस्करणस्य अन्तर्गतं बिहारराज्ये एककोटिचत्वारिलक्षाधिकाः जनाः चिह्निताः येषु षष्टिलक्षजनाः योग्याः दृष्टाः। अस्माकम् आग्रहः अस्ति यत् एतेभ्यः षष्टिलक्षेभ्यः दरिद्रपरिवारेभ्यः शीघ्रमेव पक्कगृहाणि प्रदीयेरन्। प्रधानमन्त्रीग्रामीणगृहयोजनायाः अन्तर्गतं राज्ये गृहनिर्माणप्रक्रिया त्वरिता भविष्यति यस्य अन्तर्गतं नूतनवित्तीयवर्षे प्रथमं गृहम् बिहारराज्याय प्राप्तुं निश्चितम् अस्ति। केन्द्रशासनस्य आजीविकायोजनायाः अन्तर्गतं जीविकादीदीभ्यः अपि विशेषलाभाः प्रदास्यन्ते।
मुख्यमन्त्री उक्तवान् यत् कृषिक्षेत्रे आदर्शकेन्द्रस्थापनस्य आवश्यकता वर्तते। बक्सरलखीसरायजनपदयोः टमाटरपलाण्डुयोः उत्कृष्टताकेन्द्रस्थापनाय मम आग्रहः अस्ति। कृषिक्षेत्रे नवाचारस्य उत्पादकतायाश्च वृद्ध्यर्थं राज्ये विशेषरूपेण पलाण्डु टमाटर आम्रफलादीनां कृष्युत्पादानां कृते आदर्शकेन्द्राणि स्थापितानि भविष्यन्ति। उद्यानिकीक्षेत्रस्य गोधूमधान्युत्पादनयोश्च संवर्धनार्थं कार्यं क्रियते।
बिहारस्य कृषकाः स्वोपजस्य समुचितमूल्यं प्राप्नुयुः इति हेतोः राज्यस्य फलोत्पादनम् अन्तरराष्ट्रीयविपणिभिः सह सम्बद्धं भविष्यति। बिहारराज्ये उद्यानिकीक्षेत्रस्य अपरिमिताः सम्भावनाः सन्ति। वैश्विकस्तरे मखानस्य वर्धमानां मागधारिताम् अवलोक्य मखानमण्डलस्य निर्माणप्रक्रिया शीघ्रं पूर्णा भवेत्। अस्मिन् विषये भवतः सहयोगस्य आवश्यकता वर्तते।
मुख्यमन्त्री उक्तवान् यत् बिहारराज्यम् एव देशस्य प्रथमं राज्यम् आसीत् यत् कृषिरोडमैपं स्वीकृतवान्। अस्य गौरवस्य संवर्धनार्थम् अधुना एकीकृतकृषेः उपरि विशेषबलं प्रदास्यते तथा च बिहारराज्यं अस्य कृते आदर्शराज्यरूपेण विकसितं भविष्यति। पर्यावरणसन्तुलनस्य कृषिभूमेः उर्वरतायाश्च संरक्षणार्थं विविधाः जलागमपरियोजनाः मृदासंरक्षणकार्यक्रमाश्च त्वरितगत्या कार्यान्विताः भविष्यन्ति।
मुख्यमन्त्री उक्तवान् यत् अस्माकं शासनं सुशासनस्य सर्वेषां सहयोगेन सर्वेषां विकासस्य च सङ्कल्पेन कार्यं करोति। कृषिः ग्रामीणविकासश्च अस्माकं राज्यस्य आत्मा स्तः। कालस्य महत्त्वं उपयोगितां च सम्यक् अवगम्य अस्माकं प्रशासनिकदलम् अकिञ्चनसमझौतया पूर्णपारदर्शितया एताः योजनाः जनसामान्यपर्यन्तं प्रापयिष्यति। केन्द्रराज्ययोः एषः डबलइञ्जनसहयोगः बिहारराज्यं सर्वतोमुखविकासस्य नूतनशिखराणि प्रति नयिष्यति। सः उक्तवान् यत् वयं सर्वे इच्छामः यत् भवान् निरन्तरं बिहारम् आगच्छेत् तथा च भवतः अनुभवानां लाभः सहयोगश्च राज्यवासिभ्यः सततं प्राप्येत।
केन्द्रीयकृषिकिसानकल्याणग्रामीणविकासमन्त्री शिवराजसिंहचौहानः मुख्यमन्त्रिणः सम्राटचौधरीस्य वक्तव्येषु स्वसहमतिं प्रदर्श्य आश्वासनम् अददात् यत् बिहारराज्याय कृषिग्रामीणविकासक्षेत्रयोः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रशासनस्य पूर्णसहयोगः निरन्तरं प्राप्स्यते।
अस्मिन् अवसरे कृषिमन्त्री विजयकुमारसिन्हा मुख्यसचिवः प्रत्ययअमृतः कृषिविभागस्य प्रधानसचिवः नर्मदेश्वरलालः ग्रामीणविकासविभागस्य प्रधानसचिवः पङ्कजकुमारः मुख्यमन्त्रिणः सचिवः लोकेशकुमारसिंहः मुख्यमन्त्रिणः सचिवः संजयकुमारसिंहः तथा भारतशासनस्य कृषिकिसानकल्याणविभागस्य ग्रामीणविकासविभागस्य च वरिष्ठाधिकारिणः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani