सूरजपुरम् : सोलर सेनेटरीसामग्रीं निर्माय जिल्लायाः छात्रा गीता सिंहो राष्ट्रियस्तरे परिचितो जातः
सूरजपुरम्, 17 जूनमासः (हि.स.)। नवशिक्षानीति २०२० अन्तर्गतं नवोन्मेषस्य वैज्ञानिकचिन्तनस्य च प्रोत्साहनदिशि सूरजपुरजनपदस्य छात्रा गीता सिंह उल्लेखनीयां सिद्धिं प्राप्तवती अस्ति, येन सा जनपदस्य प्रदेशस्य च नाम राष्ट्रियस्तरे प्रकाशयति। शासकीय उच्चत
कार्यक्रम की तस्वीर।


सूरजपुरम्, 17 जूनमासः (हि.स.)।

नवशिक्षानीति २०२० अन्तर्गतं नवोन्मेषस्य वैज्ञानिकचिन्तनस्य च प्रोत्साहनदिशि सूरजपुरजनपदस्य छात्रा गीता सिंह उल्लेखनीयां सिद्धिं प्राप्तवती अस्ति, येन सा जनपदस्य प्रदेशस्य च नाम राष्ट्रियस्तरे प्रकाशयति। शासकीय उच्चतरमाध्यमिकविद्यालयस्य करवां इत्यस्य छात्रया विकसितः सौरशक्तिसञ्चालितः सेनेटरी किट इदानीं सामाजिकउत्तरदायित्वस्य वैज्ञानिकनवोन्मेषस्य च उत्कृष्टमुदाहरणरूपेण समुपस्थितः अस्ति।

सहस्ररूप्यकात् न्यूनव्ययेन निर्मितस्य अस्य प्रतिरूपस्य उद्देश्यं महिलानां स्वास्थ्यस्य स्वच्छतायाश्च उन्नयनम् अस्ति। छात्रया विकसितस्य सौरशक्तिसञ्चालितस्य सेनेटरी किटस्य उपयोगः सेनेटरी पैड तथा अन्येषां उपयोगीवस्त्राणां प्रयोगात् पूर्वं जीवाणुमुक्तीकरणाय क्रियते। एषः सौरऊर्जाधारितः उपकरणः जीवाणून् नाशयित्वा संक्रमणसम्भावनाः न्यूनीकर्तुं सहायको भवति। विशेषतः रजस्वलाकाले प्रसवकाले च महिलाभ्यः अयं नवोन्मेषः अत्यन्तम् उपयुक्तः सिद्धुं शक्नोति।

गीता सिंह अवदत् यत् ग्रामीणप्रदेशेषु महिलाभिः स्वच्छतासम्बद्धानां बहूनां समस्याणां सामना क्रियते। छात्रारूपेण महिलारूपेण च तया एषा समस्या समीपतः अनुभूता, तस्याः समाधानार्थं च एतत् प्रतिरूपं विकसितम्। अस्य नवोन्मेषस्य राज्यस्तरीयस्पर्धायां द्वितीयं स्थानं प्राप्तम्। राष्ट्रियस्तरीयस्पर्धायामपि अस्य प्रतिरूपस्य द्वितीयस्थानप्राप्त्या विशेषपरिचयः अभवत्।

छात्रया उक्तं यत् अस्याः नवोन्मेषे अन्येषाम् अपि राज्याणां रुचिः वर्धमाना अस्ति। कर्नाटकप्रदेशस्य तथा रायपुरस्थस्य एकस्य विद्यालयस्य अपि अस्य प्रतिरूपस्य स्थापनेच्छा व्यक्ता अस्ति, येन अधिकाधिकजनाः अस्य लाभं प्राप्तुं शक्नुयुः।

मुख्यमन्त्रिणः विष्णु देव साय इत्यस्य सूरजपुरप्रवासकाले समाहर्त्री रेना जमील छात्रायाः अस्य नवोन्मेषस्य सूचना मुख्यमन्त्रिणे निवेदितवती। मुख्यमन्त्री गीता सिंह इत्यस्याः प्रतिरूपस्य प्रशंसां कृत्वा तस्याः वैज्ञानिकदृष्टिकोणस्य नवोन्मेषक्षमतायाः सामाजिकसंवेदनशीलतायाश्च सराहनाम् अकरोत् तथा उज्ज्वलभविष्याय शुभकामनाः अपि प्रदत्तवान्।

गीता सिंह इत्यस्याः एषा उपलब्धिः न केवलं जनपदस्य विद्यार्थिनां कृते प्रेरणास्रोतः अस्ति, अपितु एतदपि सिद्धयति यत् नवोन्मेषस्य वैज्ञानिकचिन्तनस्य दृढसंकल्पस्य च बलेन ग्रामीणाञ्चलेभ्यः अपि राष्ट्रियस्तरे सफलतायाः विजयपताका उत्थापयितुं शक्यते।

Hindusthan Samachar / Dheeraj Maithani