Enter your Email Address to subscribe to our newsletters

रायपुरम्, 17 जूनमासः (हि.स.)।
राज्यपालः रमेनडेकः कमलविहाररायपुरे स्थितं प्रायः द्विशतत्रिंशदधिकैकशतएकडपरिमितक्षेत्रे विस्तीर्णं गजराजबन्धं रायपुरनगरस्य पेयजलावश्यकतापूर्त्यर्थं विशालजलाशयरूपेण विकसितुं पहलम् अकरोत्। राज्यपालः अद्य बुधवासरे लोकभवने रायपुरनगरनिगमस्य महापौरा मीनलचौबे अतिरिक्तायुक्तः विनोदपाण्डेयश्च सह अस्य विषयस्य सम्बन्धे विशेषचर्चाम् अकरोत्।
राज्यपालः उक्तवान् यत् वर्तमानकाले सिञ्चनकार्येषु अनुपयुक्तस्य गजराजबन्धस्य आवश्यकमरम्मतं कृत्वा तम् रायपुरनगरस्य जीवनरेखारूपेण विकसितुं शक्यते। अस्य बन्धस्य पेयजलभण्डाररूपेण विकासेन नगराय शुद्धं पर्याप्तं च पेयजलम् उपलब्धं कर्तुं सहायता भविष्यति।
राज्यपालः महापौरां प्रति सम्बन्धितविभागस्य अधिकारिभिः सह समन्वयं कृत्वा अस्यां दिशि अग्रे गन्तुं आवश्यकान् निर्देशान् प्रदत्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani