‘बेटी बचाओ, बेटी पढ़ाओ’ इति योजनायाः अन्तर्गतं सर्वोच्चस्थानं प्राप्तवतीभ्यः छात्राभ्यः सम्माननं कृतम्
युपियानगरम्, १७ जूनमासः (हि.स.)। अरुणाचलप्रदेशस्य पापुम-पारे-जनपदस्य महिला-शिशु-विकास-विभागेन अद्य युपिया-नगरे उपयुक्तायुक्तस्य सम्मेलन-सभागारे ‘बेटी बचाओ, बेटी पढ़ाओ’ योजनायाः अन्तर्गतं जनपदस्य दशम-एकादश-द्वादश-कक्षायां प्रथमस्थानं प्राप्तवतीभ्यः
'बेटी बचाओ, बेटी पढ़ाओ' योजना के तहत टॉप करने वाली छात्राओं को सम्मानित किया


युपियानगरम्, १७ जूनमासः (हि.स.)। अरुणाचलप्रदेशस्य पापुम-पारे-जनपदस्य महिला-शिशु-विकास-विभागेन अद्य युपिया-नगरे उपयुक्तायुक्तस्य सम्मेलन-सभागारे ‘बेटी बचाओ, बेटी पढ़ाओ’ योजनायाः अन्तर्गतं जनपदस्य दशम-एकादश-द्वादश-कक्षायां प्रथमस्थानं प्राप्तवतीभ्यः छात्राभ्यः सम्माननं कृतम्।

सरकारी-उच्च-माध्यमिक-विद्यालयस्य, दोईमुखस्य दशम-कक्षायाः टॉपर-यांगम-मायिंग:, सरकारी-उच्च-माध्यमिक-विद्यालयस्य किमिनस्य द्वादश-कक्षा (मानविकी-शाखा)-टॉपर-बामांग-यामु, उच्च-माध्यमिक-विद्यालयस्य दोईमुखस्य द्वादश-कक्षा (विज्ञान-शाखा)-टॉपर-नांग्राम-लिली, तथा उच्च-माध्यमिक-विद्यालयस्य सगाली-नगरस्य द्वादश-कक्षा (वाणिज्य-शाखा)-टॉपर-नबम-पुमिन इत्येताः स्वश्रेष्ठ-प्रदर्शनार्थं दश सहस्र-रूप्यकाणां नगद-पुरस्कारं प्रशस्ति-पत्रं च प्राप्य सम्मानिताः।

अवसरे पापुम-पारे-जनपदस्य उपायुक्तः लोबसाङ्ग-त्सेरिङ्गः उक्तवान् यत् शिक्षा केवलं उपाधि-सङ्ग्रहणाय न भवितव्या, अपि तु तया छात्राणां क्षमता, कौशला: तथा आत्मविकासः च संवर्धनीयः।

सः बलं दत्तवान् यत् छात्रेषु शैक्षणिक-ज्ञानं जीवन-कौशलं च उभयं भवितव्यं, येन ते वास्तविकार्थे शिक्षिताः भवन्ति, न केवलं साक्षराः। सः पत्र-पठनस्य महत्त्वं प्रतिपाद्य छात्रान् आह यत् ते समाचार-पत्राणि पुस्तकानि च नियमितरूपेण पठन्तु, येन विश्व-घटनानां तथा सम-सामयिक-विषयाणां ज्ञानं वर्धते।

‘बेटी बचाओ, बेटी पढ़ाओ’ योजनायाः विषये सः उक्तवान् यत् एतत् भारत-सर्वकारस्य एकः प्रमुखः सामाजिक-अभियानम् अस्ति, यस्य मुख्यम् उद्देश्यं कन्या-भ्रूण-हत्या तथा कन्याशिक्षायाः प्रति जागरूकता-वर्धनम् अस्ति।

सः इदमपि अवदत् यत् अरुणाचलप्रदेशे कन्या-भ्रूण-हत्या तुलनात्मकरूपेण न्यूना अस्ति तथा समाजे कन्याभिः सह पुत्रवत् व्यवहारः क्रियते, तथापि बहुविवाह-इत्यादयः सामाजिक-समस्या अद्यापि बालिकानां जीवनं प्रभावितं कुर्वन्ति। अतः छात्राः केवलं शिक्षां न, अपि तु नैतिक-रूपेण उत्तम-उत्तरदायित्वयुक्त-नागरिकत्वं च प्राप्नुवन्तु इति सः आह।

पापुम-पारे-जनपदस्य आरक्षक-अधीक्षकः तारू-गुसारः अपि कार्यक्रमे अस्मिन् उपस्थाय छात्रान् सम्बोधितवान्। सः उक्तवान् यत् अग्रगण्य-छात्राभ्यः दत्तः नगद-पुरस्कारः तेषां प्रोत्साहनस्य प्रतीकम् अस्ति, येन ते स्व-उत्कृष्ट-प्रदर्शनं निरन्तरं कुर्वन्तु।

अस्मिन् अवसरे विद्यालय-शिक्षा-विभागस्य उपनिदेशकः टी.टी. तारा, महिला-शिशु-विकास-विभागस्य उपनिदेशकः जया आबा इत्यादयः अन्येऽपि अधिकारीणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan