केंद्रं डॉ. सैबल चट्टोपाध्यायाय राष्ट्रियसांख्यिकी आयोगस्य अध्यक्षो नियुक्तः
नवदिल्ली, 17 जूनमासः (हि.स)। केन्द्रीयशासनेन डॉ. सैबल चट्टोपाध्यायस्य राष्ट्रियसांख्यिकीआयोगस्य अध्यक्षरूपेण नियुक्तिः कृता। देशस्य सर्वासां प्रमुखसांख्यिकीक्रियाकलापानां कृते नोडलनिकायरूपेण कार्यं कुर्वतः अस्य आयोगस्य अध्यक्षस्य सदस्याणां च निय
एनएससी के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, 17 जूनमासः (हि.स)।

केन्द्रीयशासनेन डॉ. सैबल चट्टोपाध्यायस्य राष्ट्रियसांख्यिकीआयोगस्य अध्यक्षरूपेण नियुक्तिः कृता। देशस्य सर्वासां प्रमुखसांख्यिकीक्रियाकलापानां कृते नोडलनिकायरूपेण कार्यं कुर्वतः अस्य आयोगस्य अध्यक्षस्य सदस्याणां च नियुक्तये मन्त्रिमण्डलीयनियुक्तिसमित्या अनुमोदनं प्रदत्तम्।

एतेषां सहैव प्रो. शुभब्रत दास, सत्येन्द्र बहादुर सिंह तथा डॉ. माधवन मुकुन्द इत्येते आयोगस्य नूतनसदस्यरूपेण नियुक्ताः। डॉ. सैबल चट्टोपाध्याय कोलकातास्थितस्य इण्डियन इन्स्टिट्यूट ऑफ मैनेजमेण्ट इत्यस्य पूर्वनिदेशकः अस्ति। तेन अमेरिकादेशस्य स्टॉर्सनगरस्थितात् कनेक्टिकट विश्वविद्यालयात् सांख्यिकीविषये पीएचडी तथा एमएस उपाधी प्राप्ते।

प्रोफेसर शुभब्रत दास बेङ्गलूरुस्थिते इण्डियन इन्स्टिट्यूट ऑफ मैनेजमेण्ट इत्यत्र प्राध्यापकः अस्ति। तेन चैपल हिल स्थितात् यूनिवर्सिटी ऑफ नॉर्थ कैरोलिना इत्यस्मात् सांख्यिकीविषये पीएचडी तथा एमएस उपाधी प्राप्ते। तथा कोलकातास्थितात् भारतीय सांख्यिकी संस्थानात् सांख्यिकीविषये एम स्टैट तथा बी स्टैट उपाधी अपि प्राप्ते।

सत्येन्द्र बहादुर सिंह भारतीय सांख्यिकी सेवायाः उन्नवत्यधिकनवशतसप्ताशीतितमवर्षीयसमूहस्य सेवानिवृत्ताधिकारी अस्ति। तस्य भारतशासने त्रिदशकाधिकदीर्घः सेवाकालः आसीत्। आधिकारिकसांख्यिकी, आर्थिकसांख्यिकी, श्रम तथा रोजगारसांख्यिकी, नीतिसहायता, प्रशिक्षणं प्रशासनं च इत्यादिषु क्षेत्रेषु तस्य व्यापकः अनुभवः अस्ति।

डॉ. माधवन मुकुन्द चेन्नई गणित संस्थानस्य निदेशकः अस्ति। तेन डेनमार्कदेशस्य आरहस विश्वविद्यालयात् सङ्गणकविज्ञानविषये पीएचडी उपाधिः तथा भारतीयप्रौद्योगिकीसंस्थानात् बॉम्बे इत्यस्मात् सङ्गणकविज्ञानअभियांत्रिकीविषये बी टेक उपाधिः प्राप्ता।

राष्ट्रियसांख्यिकीआयोगस्य स्थापना द्विसहस्रपञ्चमे वर्षे देशस्य सर्वासां प्रमुखसांख्यिकीक्रियाकलापानां कृते नोडलनिकायरूपेण कृता आसीत्। अस्मिन् आयोगे एकः अंशकालिकाध्यक्षः, सांख्यिकीक्षेत्रे विशेषज्ञताम् अनुभवं च धारयन्तः चत्वारः अंशकालिकसदस्याः तथा नीति आयोगस्य मुख्यकार्यपालकाधिकारी पदेनसदस्यरूपेण समाविष्टः भवति।

उल्लेखनीयम् अस्ति यत् सांख्यिकी तथा कार्यक्रमकार्यान्वयनमन्त्रालयस्य सचिवः राष्ट्रियसांख्यिकी-आयोगस्य सचिवः भवति।

---------------

Hindusthan Samachar / Dheeraj Maithani