Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 17 जूनमासः (हि.स)।
सार्वजनिकक्षेत्रस्य पुनर्बीमासंस्था जनरल इन्श्योरन्स कॉरपोरेशन ऑफ इण्डिया इति संस्था, या जीआईसी री इति नाम्ना प्रसिद्धा अस्ति, बुधवासरे हितेश रमेश चन्द्र जोशी इत्येतं स्वस्य नूतनं अध्यक्षं प्रबन्धनिदेशकं च नियुक्तवती।
सः पूर्वमेव १ अक्टोबर २०२५ तः अन्तरिमरूपेण एतां भूमिकां निर्वहन् आसीत्।
संस्थायाः अनुसारं हितेश रमेश चन्द्र जोशी १६ जून तिथौ आधिकारिकरूपेण स्वकार्यभारं स्वीकृतवान्। वित्तमन्त्रालयेन १५ जून तिथौ प्रेषितेन पत्रेण हितेश रमेश चन्द्र जोशी इत्यस्य अध्यक्षप्रबन्धनिदेशकपदे नियुक्तिः अनुमोदिता। तस्य नियुक्तिः सेवानिवृत्तितिथेः ३० सितम्बर २०२८ पर्यन्तं अथवा अग्रिमादेशपर्यन्तं यत् पूर्वं भविष्यति तत्पर्यन्तं प्रभावी भविष्यति। एतत् पदं नारायणन रामास्वामी इत्यस्य द्विवर्षीयकार्यकालस्य समाप्तेः अनन्तरं रिक्तम् अभवत्।
हितेश रमेश चन्द्र जोशी स्वनियुक्तेः विषये उक्तवान् यत् अहं जीआईसी री संस्थायाः दलस्य सहकार्येण संस्थायाः विपण्यां अग्रणीस्थानं अधिकं सुदृढं कर्तुं, वैश्विकोपस्थितेः विस्तारं कर्तुं तथा हितधारकाणां कृते मूल्यसृजनस्य कार्यं निरन्तरं प्रवर्तयितुं उत्साहितः अस्मि।
बीमाक्षेत्रे पुनर्बीमाक्षेत्रे च त्रिदशकाधिकानुभवं धारयन्तः हितेश रमेश चन्द्र जोशी अस्मिन् क्षेत्रे व्यापकविशेषज्ञतां नेतृत्वानुभवं च धारयति।
---------------
Hindusthan Samachar / Dheeraj Maithani