Enter your Email Address to subscribe to our newsletters

रायपुरम् 17 जूनमासः (हि.स.)।
अन्ताराष्ट्रिययोगदिवसस्य अवसरे जूनमासस्य एकविंशतितमे दिने समग्रं छत्तीसगढराज्यं योगमयवातावरणेन परिपूर्णं भविष्यति। अस्मिन् वर्षे स्वस्थदीर्घायुषे योगः इति विषयं स्वीकृत्य प्रदेशव्यापिनः जनपदमुख्यालयेभ्यः ग्रामपञ्चायतस्तरपर्यन्तं सामूहिकयोगाभ्यासस्य विशेषकार्यक्रमाः आयोजयिष्यन्ते। राज्यशासनेन अस्य व्यापकाः सज्जताकार्यक्रमाः सम्पन्नाः। जनपदमुख्यालयेषु आयोजितेषु सामूहिकयोगाभ्यासकार्यक्रमेषु राज्यपालः मुख्यमन्त्री उपमुख्यमन्त्रिद्वयम् मन्त्रिगणः सांसदगणः विधायकगणश्च मुख्यातिथयः भविष्यन्ति। छत्तीसगढसामान्यप्रशासनविभागेन निर्गतादेशानुसारं जनपदमुख्यालयेषु आयोजितेषु सामूहिकयोगाभ्यासकार्यक्रमेषु मुख्यातिथयः नामनिर्दिष्टाः सन्ति।
राज्यपालस्य रमेनडेका महोदयस्य मुख्यातिथ्ये जूनमासस्य एकविंशतितमे दिने राजधानी रायपुरनगरे अन्ताराष्ट्रिययोगदिवसस्य अवसरे सामूहिकयोगाभ्यासकार्यक्रमः आयोज्यते। मुख्यमन्त्रिणः विष्णुदेवसाय महोदयस्य मुख्यातिथ्ये सरगुजाजनपदे प्रातः सप्तवादने सामूहिकयोगाभ्यासः भविष्यति। अस्य कार्यक्रमस्य अध्यक्षता मन्त्री श्यामबिहारीजायसवाल महोदयः करिष्यति।
निर्गतादेशानुसारं केन्द्रीयराज्यमन्त्री तोखनसाहू बिलासपुरे उपमुख्यमन्त्री अरुणसाव दुर्गजनपदे उपमुख्यमन्त्री विजयशर्मा कबीरधामजनपदे विधानसभाध्यक्षः डॉ रमनसिंह राजनांदगांवजनपदे च जूनमासस्य एकविंशतितमे दिने आयोजितस्य अन्ताराष्ट्रिययोगदिवसस्य मुख्यकार्यक्रमे मुख्यातिथयः भविष्यन्ति।
तथैव कोरियाजनपदे मन्त्री रामविचारनेताम महासमुन्दजनपदे मन्त्री दयालदासबघेल सुकमाजनपदे मन्त्री केदारकश्यप कांकेरजनपदे मन्त्री लखनलालदेवाङ्गन जांजगीरचाम्पाजनपदे मन्त्री ओपीचौधरी सारंगढबिलाईगढजनपदे मन्त्री टंकरामवर्मा बलरामपुररामानुजगञ्जजनपदे मन्त्री लक्ष्मीराजवाडे जशपुरजनपदे मन्त्री राजेशअग्रवाल कोरबाजनपदे मन्त्री गुरुखुशवन्तसाहेब बालोदजनपदे मन्त्री गजेन्द्रयादवश्च अन्तर्राष्ट्रीययोगदिवसस्य मुख्यकार्यक्रमेषु मुख्यातिथयः नियुक्ताः सन्ति।
विविधेषु जनपदेषु योगदिवसस्य गरिमामयस्य आयोजनस्य उत्तरदायित्वं सांसदविधायकयोः अपि निहितम् अस्ति। बलौदाबाजारभाटापाराजनपदे सांसदः बृजमोहनअग्रवाल बेमेतराजनपदे सांसदः विजयबघेल मोहलामानपुरचौकीजनपदे सांसदः सन्तोषपाण्डेयश्च मुख्यातिथयः भविष्यन्ति।
तथैव सूरजपुरजनपदे सांसदः चिन्तामणिमहाराज गरियाबन्दजनपदे सांसदः रूपकुमारीचौधरी रायगढजनपदे सांसदः राधेश्यामराठिया जांजगीरजनपदे सांसदः कमलेशजांगडे नारायणपुरजनपदे सांसदः महेशकश्यप कोण्डागांवजनपदे सांसदः भोजराजनागश्च अन्ताराष्ट्रिययोगदिवसस्य कार्यक्रमेषु मुख्यातिथयः भविष्यन्ति।
बीजापुरजनपदे विधायकः लताउसेण्डी खैरागढछुईखदानगण्डईजनपदे विधायकः ललितचन्द्राकर गौरेलापेण्ड्रामरवाहीजनपदे विधायकः प्रणवकुमारमरपच्ची मुंगेलीजनपदे विधायकः पुन्नूलालमोहले धमतरीजनपदे विधायकः अजयचन्द्राकर मनेन्द्रगढचिरिमिरीभरतपुरजनपदे विधायकः रेणुकासिंह बस्तरजनपदे विधायकः किरणसिंहदेव दन्तेवाडाजनपदे विधायकः चौतरामअटामी च अन्ताराष्ट्रिययोगदिवसस्य मुख्यकार्यक्रमेषु मुख्यातिथयः नियुक्ताः सन्ति।
सर्वेषु जनपदेषु अन्तर्राष्ट्रीययोगदिवसस्य सामूहिकयोगकार्यक्रमाणां सज्जताः जनपदप्रशासनस्य पर्यवेक्षणे अन्तिमचरणे सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani