Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ जूनमास: (हि.स.)। भारतस्य वार्षिकं रक्षा-उत्पादनं वित्तीय-वर्षे २०२५-२६ अभूतपूर्वं १.७८-लक्ष-कोटि-रूप्यकाणि प्राप्तम्, यत् गतवर्षस्य अपेक्षया १५.६ प्रतिशत-वृद्धिं दर्शयति।
रक्षा-मन्त्रालयस्य अनुसारं सार्वजनिक-क्षेत्रस्य उपक्रमाणां योगदानं ७६ प्रतिशतं, निजी-क्षेत्रस्य च २४ प्रतिशतम् आसीत्। निजी-क्षेत्रस्य उत्पादनमूल्यं प्रायः ४२,००० कोटि-रूप्यकाणि प्राप्तम्। एषा वृद्धिः रक्षा-निर्यातेऽपि योगदानं दत्त्वा वित्तीय-वर्षे २०२५-२६ मध्ये ३८,४२४ कोटि-रूप्यकाणां अभूतपूर्वं निर्यातं साधितवती।
रक्षामन्त्री राजनाथसिंहः एतस्या: सफलतायाः श्रेयः रक्षा-उत्पादन-विभागाय तथा सार्वजनिक-निजी-क्षेत्रयोः संयुक्त-प्रयत्नेभ्यः दत्त्वा उक्तवान् यत् निरन्तर-नीतिसमर्थनेन, निजी-क्षेत्रस्य सहभागितया तथा निर्यात-विस्तारेण रक्षा-उद्योगः भविष्ये अधिकं प्रगतिं करिष्यति।
Hindusthan Samachar / Divya Ranjan