Enter your Email Address to subscribe to our newsletters

रांची, 17 जूनमासः (हि.स.)।
झारखण्डप्रदेश एम्बुलेन्सकर्मचारीसङ्घेन १०८ एम्बुलेन्ससेवायाः सञ्चालनसम्बद्धासु दृष्टासु अनियमिततासु तथा सर्वकारीयशर्तानाम् उल्लङ्घनप्रकरणेषु वर्तमानसेवाप्रदातृसंस्थायाः सम्मानफाउण्डेशनसंस्थानस्य एकरारनाम्नः समाप्त्यर्थं कृतायाः कार्यवाह्याः स्वागतं कृतम्।
सङ्घेन अस्य निर्णयस्य कृते बुधवासरे प्रकाशितायां पत्रकारविज्ञप्तौ स्वास्थ्यमन्त्री डा. इरफानअंसारी, अपरमुख्यसचिवः अजयकुमारसिंहः, एनएचएम अभियाननिदेशकः शशिप्रकाशझा तथा स्वास्थ्यविभागस्य अधिकारिणः प्रति कृतज्ञता प्रकटिता।
सङ्घस्य प्रदेशाध्यक्षः नीरजतिवारी उक्तवान् यत् राज्ये १०८ एम्बुलेन्ससेवा बहुभिः समस्याभिः संघर्षं करोति। अनेकेषां रोगिवाहनानान्तकनीकीदोषकारणात् निष्क्रियावस्थायां स्थिताः सन्ति, तथा च डीजलस्य पर्याप्तोपलब्धता न भवति इति कारणेन सेवा प्रभाविताभवत्। तेन सूचितं यत् कर्मचारीणां वेतनम् अप्रैल २०२६ मासात् अवशिष्टम् अस्ति तथा उपस्थितौ मनमानिरूपेण कर्तनसम्बद्धाः अभियोगाः अपि समक्षम् आगताः सन्ति, येन कर्मकराः आर्थिकमानसिककठिनताः अनुभवन्ति।
सङ्घेन सर्वकारात् आग्रहः कृतः यत् नूतनसेवाप्रदातृसंस्थायाः चयनात् पूर्वं तस्याः वित्तीयअभिलेखानाम्, कार्यानुभवस्य, श्रमविधानानाम् अनुपालनस्य तथा अन्यराज्येषु तस्याः कार्यप्रदर्शनस्य गम्भीरा परीक्षा क्रियताम्। सहैव दीर्घकालात् कार्यरतानां स्थानीयानाम् अनुभवीनां कर्मचारीणां च सेवासातत्ये प्राथमिकता प्रदीयताम्।
सङ्घेन उक्तं यत् १०८ एम्बुलेन्ससेवा सामान्यजनानां कृते जीवनरक्षकव्यवस्था अस्ति। अतः राज्यसर्वकारेण शीघ्रं समर्थायाः पारदर्शिन्याः च नूतनायाः संस्थायाः चयनं कृत्वा सेवायाः सुचारुं प्रभाविकं च सञ्चालनं सुनिश्चितं करणीयम्, येन रोगिणः समये आपत्कालीनस्वास्थ्यसुविधाः प्राप्तुं शक्नुयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani