राञ्चीनगरे संघकार्यालये पेट्रोलविस्फोटकः प्रक्षिप्तः, रक्षाराज्यमन्त्री संजयसेठः अवदत्— एतत् महत्सड्यन्त्रस्य सङ्केतः
राञ्चीनगरम्, जूनमासस्य १७ दिनाङ्कः (हि.स.)। झारखण्डराज्यस्य राजधान्याः राञ्चीनगरस्य चुटिया-थानाक्षेत्रे निवारणपुरे स्थिते राष्ट्रियस्वयंसेवकसंघस्य कार्यालये मङ्गलवासरे रात्रौ पेट्रोलविस्फोटकेन आक्रमणस्य प्रयासः कृतः। आरक्षक-विभागस्य अनुसारं द्वौ अप
रक्षा राज्य मंत्री , नेता प्रतिपक्ष और अन्य


बाबूलाल सहित अन्य


राञ्चीनगरम्, जूनमासस्य १७ दिनाङ्कः (हि.स.)। झारखण्डराज्यस्य राजधान्याः राञ्चीनगरस्य चुटिया-थानाक्षेत्रे निवारणपुरे स्थिते राष्ट्रियस्वयंसेवकसंघस्य कार्यालये मङ्गलवासरे रात्रौ पेट्रोलविस्फोटकेन आक्रमणस्य प्रयासः कृतः। आरक्षक-विभागस्य अनुसारं द्वौ अपराधिनौ सॉस-पात्रयोः पेट्रोलतैलं पूरयित्वा तौ विस्फोटकौ संघकार्यालयस्य अन्तः प्रक्षेप्तुं प्रयतितवन्तौ। किन्तु उभे पात्रे परिखाभित्तेः पूर्वमेव पतिते, अतः महती दुर्घटना न अभवत्।

नगर-आरक्षक-अधीक्षकः पारस-राणा उक्तवान् यत् घटनायाः अन्वेषणं प्रारब्धम्। अद्यावधि प्राप्तसूचनानुसारम् अस्मिन् प्रकरणे द्वौ युवानौ संलग्नौ स्तः। अन्वेषणार्थं न्यायवैज्ञानिक-प्रयोगशालया सहितं बहूनि दलानि नियुक्तानि सन्ति। प्राप्तेषु सीसीटीवी-दृश्येषु द्वौ आक्रमणकारिणौ पेट्रोलपूर्णपात्रे संघकार्यालयं प्रति क्षेप्तुं प्रयतमानौ दृश्येते। प्रथमपात्रस्य प्रक्षेपणकाले ज्वलन्ती सूत्रिका भूमौ पतिता, अतः तेषां प्रयासः निष्फलः अभवत्। द्वितीयं पात्रम् अपि कार्यालयस्य समीपं न प्राप्तम्। सः अवदत् यत् पेट्रोलविस्फोटकनिर्माणे चिल्ली-सॉस-पात्रस्य उपयोगः कृतः।

स्थानीयजनानां कथनानुसारं संघकार्यालयस्य समीपे स्थितस्य एकस्य विश्रामगृहस्य केचन कर्मचारी अस्मिन् प्रकरणे सन्दिग्धाः सन्ति। कतिपयदिनपूर्वं संघकार्यालयस्य जनैः मलिनतादिकारणेन तस्य विश्रामगृहस्य विरुद्धं सूचना कृता आसीत्। ततः प्रभृतिः विवादः प्रचलति स्म। आरक्षकविभागस्य अपि आशङ्का अस्ति यत् अस्मिन् आक्रमणे विश्रामगृह-कर्मचारिणां हस्तः भवेत्।

घटनायाः सूचना प्राप्तमात्रेण केन्द्रीय-रक्षा-राज्यमन्त्री संजयसेठः, भाजपानेता बाबूलालः मरांडी च संघकार्यालयम् आगच्छताम्। भाजपानेतारः राजधानीनगरे विधि-व्यवस्थायाः स्थितिम् आलोचितवन्तः तथा निष्पक्षान्वेषणस्य अपराधिनां च शीघ्रग्रहणस्य याचनां कृतवन्तः।

संजयसेठः अवदत् यत् एषा घटना अतीव गम्भीरा अस्ति। यदि आक्रमणं सफलं अभविष्यत् तर्हि कार्यालयस्य अधिकारिणः तस्य प्रभावे आगताः स्युः। अस्मिन् विषये राज्यस्य आरक्षक-महानिदेशकेन सह वार्ता कृता अस्ति। प्रकरणस्य गहनतया अन्वेषणं भवितव्यम्, येन शीघ्रमेव सत्यस्य उद्घाटनं स्यात्।

सः पुनः अवदत्— “एषा सामान्यघटना नास्ति, अपितु अस्माकं मातुः उपरि आक्रमणम् इव अस्ति। येन भावेन एतदाक्रमणं कृतम्, तस्य हेतोः अन्वेषणं आरक्षक-प्रशासनेन अवश्यमेव करणीयम्।” तेन उक्तं यत् सीसीटीवी-दृश्येषु एकं टैक्सी-यानं तथा समर्थनार्थं एकं मोटरयानं दृश्यते। एतौ युवानौ एकवारं न, अपितु द्विवारम् आगतवन्तौ। प्रथमवारं मुखावरणं कृत्वा विस्फोटकं प्रक्षिप्य गतवन्तौ, ततः पुनरागत्य द्वितीयं विस्फोटकं प्रक्षिप्तवन्तौ। एतेषां योजना दीर्घकालिकरूपेण निर्मिता आसीत्। तेन अपराधिनां शीघ्रग्रहणस्य अपेक्षा व्यक्ता।

भाजपा-विधायकः सीपीसिंहः अवदत् यत् एतदाक्रमणं केवलं कार्यालयस्य उपरि न, अपितु सर्वेषां सनातनधर्मानुयायिनां विरुद्धम् आक्रमणम् अस्ति। अस्य राज्यसभानिर्वाचनेन सह कश्चन सम्बन्धो नास्ति।

Hindusthan Samachar / Divya Ranjan