Enter your Email Address to subscribe to our newsletters

मंडी, 17 जूनमासः (हि.स.)।
श्रीराजपूतसभा मण्डी तथा राजपूतमहासभा हिमाचलप्रदेशस्य संयुक्ततत्त्वावधाने राज्यस्तरीयः वीरशिरोमणि महाराणाप्रतापजयन्तीसमारोहः मण्ड्यां भव्यरूपेण आयोजितः। अस्मिन् समारोहे विविधसामाजिकधार्मिकसांस्कृतिकसङ्गठनानां प्रतिनिधयः तथा प्रदेशस्य विभिन्नजिलेभ्यः समागताः गणमान्यव्यक्तयः उत्साहपूर्वकं सहभागित्वं कृतवन्तः। समारोहस्य मुख्यातिथिः अखिलभारतीयक्षत्रियमहासभायाः राष्ट्रीयसमन्वयकः बचनसिंहराणः आसीत्।
स्वसम्बोधने तेन महाराणाप्रतापेन स्थापितान् राष्ट्रभक्तेः स्वाभिमानस्य त्यागस्य साहसस्य ईमानदारितायाः वफादारितायाः तथा मानसम्मानस्य आदर्शान् स्मारयन् उक्तं यत् समाजे एतेषां मूल्यानां निरन्तरः ह्रासः चिन्ताजनकः विषयः अस्ति। तेन उक्तं यत् यदा समाजः स्वेभ्यः नैतिकसांस्कृतिकमूल्येभ्यः दूरं गच्छति तदा तस्य प्रभावः आर्थिकसामाजिकव्यवस्थयोः अपि दृश्यते।
श्रीराजपूतसभा मण्ड्याः प्रधानः डा. अमरसिंहगुलेरियः स्वागतभाषणे सर्वेषाम् अतिथीनां प्रतिभागिनां च हार्दिकं स्वागतं कृतवान् तथा समारोहस्य सफलतायां सहयोगं प्रदत्तवन्तः सर्वेभ्यः व्यक्तिभ्यः कृतज्ञतां प्रकटितवान्। सभायाः वरिष्ठोपाध्यक्षः तथा कृषि विश्वविद्यालय पालमपुरस्य पूर्वकुलपतिः प्रोफेसर अशोकसरयालः समारोहे उपस्थितानां एनएसयूआई तथा एबीवीपी प्रतिनिधीनां विशेषं धन्यवादं व्यक्तवान्।
तेन युवभ्यः आह्वानं कुर्वता उक्तं यत् प्रदेशे वर्धमाना बेरोजगारी वर्धमानं ऋणभारं तथा अन्येषां जनहितसम्बद्धविषयाणां समाधानार्थं समाजस्य संगठनम् आवश्यकम् अस्ति। तेन उक्तं यत् अनुभवान्वितानाम् ईमानदाराणां प्रतिष्ठितव्यक्तित्वानां च नेतृत्वे जनकल्याणकारीनीतीनां विधानानां च निर्माणदिशि सार्थकप्रयत्नाः करणीयाः।
राजपूतमहासभायाः भूतपूर्वसैनिकविङ्गस्य अध्यक्षः तथा हिमाचलप्रदेशलोकसेवाआयोगस्य पूर्वाध्यक्षः मेजरजनरल धर्मवीरसिंहराणः युवानः आहूय उक्तवान् यत् ते महाराणाप्रतापस्य शौर्यात् साहसात् राष्ट्रनिष्ठायाश्च प्रेरणां गृहीत्वा समाजे सकारात्मकपरिवर्तनाय सक्रियां भूमिकां निर्वहन्तु। राजपूतमहासभा हिमाचलप्रदेशस्य अध्यक्षः ई. के. एस. जम्वालः स्वसम्बोधने महासभायाः स्थापना तस्याः उद्देश्यान् तथा समाजहिताय क्रियमाणानां कार्याणां विषये प्रकाशं न्यक्षिपत्।
महासभायाः महासचिवः विजयचन्देलः समारोहे समागतानां ब्राह्मणसभा क्षत्रियसभा नामधारीसभा सूदसभा महाजनसभा सहितानां विविधसामाजिकसङ्गठनानां प्रतिनिधीनां तथा बिलासपुर हमीरपुर सोलन कुल्लू काङ्गडा जिलेषु आगतानां राजपूतमहासभायाः पदाधिकारिणां सदस्याणां अन्येषां सर्वेषाम् अतिथीनां च प्रति कृतज्ञतां व्यक्तवान्।
Hindusthan Samachar / Dheeraj Maithani