महापौरो महाराणा प्रतापाय अददात् श्रद्धांजलिं, चरती लाल गोयल हैरिटेज-उद्यानस्य अकरोत् निरीक्षणम्
नव दिल्ली, 17 जूनमासः (हि.स.)।दिल्ल्याः महापौरः प्रवेशवाही बुधवासरे अन्तर्राज्यीयबसस्थानकस्य सम्मुखे ऐतिहासिके कुदसियाबागे स्थापितायां महाराणाप्रतापस्य प्रतिमायां श्रद्धासुमनानि अर्पितवान्। महापौरः प्रवेशवाही उक्तवान् यत् महाराणाप्रतापस्य जीवनं सा
महापौर प्रवेश वाही महाराणा प्रताप की प्रतिमा पर श्रद्धासुमन अर्पित करते हुए।


नव दिल्ली, 17 जूनमासः (हि.स.)।दिल्ल्याः महापौरः प्रवेशवाही बुधवासरे अन्तर्राज्यीयबसस्थानकस्य सम्मुखे ऐतिहासिके कुदसियाबागे स्थापितायां महाराणाप्रतापस्य प्रतिमायां श्रद्धासुमनानि अर्पितवान्।

महापौरः प्रवेशवाही उक्तवान् यत् महाराणाप्रतापस्य जीवनं साहसस्य शौर्यस्य स्वाभिमानस्य च प्रतीकम् अस्ति। तेन स्वस्य सम्पूर्णं जीवनं मातृभूमेः रक्षणाय समर्पितम्, यत् देशस्य प्रत्येकसन्ततेः कृते प्रेरणास्रोतः भविष्यति।

महाराणाप्रतापाय श्रद्धाञ्जलिं समर्पयन् प्रवेशवाही उक्तवान् यत् महाराणाप्रतापः महान् योद्धा आसीत्, यः मुगलसाम्राज्येन सह दीर्घकालं युद्धं कृतवान् तथा च अदम्यसाहसस्य परिचयं दत्तवान्। तेन स्वजीवनकाले यद् अनुकरणीयं साहसम् अद्भुता च वीरता प्रदर्शिता, सा अद्य भारतस्य नागरिकानां कृते अनुकरणीया वर्तते।

अस्मिन् अवसरे पार्षदः सुमनकुमारगुप्तः, कमलबागडी, निगमस्य वरिष्ठाधिकारिणः अन्ये च गणमान्यजनाः उपस्थिताः आसन्।

तथा च महापौरेण अद्य मरघटवालेहनुमानमन्दिरपरिसरस्य आकस्मिकनिरीक्षणं कृतम् एवं मन्दिरपरिसरस्य स्वच्छताव्यवस्थायाः अवलोकनं कृतम्। तेन अधिकारिभ्यः मन्दिरपरिसरे स्वच्छताव्यवस्थां निरन्तरं स्थापयितुं निर्देशाः दत्ताः। तेन उक्तं यत् दिल्लीनगरनिगमः मुख्यमन्त्रिणः रेखागुप्तायाः स्वच्छदिल्ली हरितदिल्ली इति सङ्कल्पस्य साकारीकरणाय निरन्तरं प्रयतमानः अस्ति।

महापौरेण अद्य पुराणदिल्लीस्थे जामामस्जिदस्य समीपे स्थितस्य चरतीलालगोयलहेरिटेजउद्यानस्य निरीक्षणं कृतम्। निरीक्षणस्य समये पूर्वसांसदः विजयगोयलः, निगमायुक्तः संजीवखिरवारः, क्षेत्रस्य उपायुक्ता कनिका तथा दिल्लीनगरनिगमस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्।

महापौरेण उद्यानस्य निरीक्षणकाले अधिकारिणः उद्यानस्य उत्तमरक्षणार्थं समुचितसंख्यायां कार्यबलस्य नियुक्तिं कर्तुं निर्देशिताः। प्रवेशवाही उद्यानप्रवेशाय सुविधाशुल्कस्य पूर्वव्यवस्थां पुनः प्रवर्तयितुं व्यवस्थां कर्तुं निर्देशान् दत्तवान्। तेन उद्यानस्य परितः अतिक्रमणं निष्कासयितुं निर्देशाः अपि दत्ताः। वाही उक्तवान् यत् दिल्लीनगरनिगमः नागरिकेभ्यः उत्कृष्टसुविधाः प्रदातुं प्रतिबद्धः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani