Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, १७ जूनमास: (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य बुधवासरे उज्जयिनी-जनपदस्य प्रवासे भविष्यति। सः अत्र झारडा-तहसील-स्थितस्य सामाकोटा-बैराज-इत्यस्य लोकार्पणं करिष्यति। एषा योजना लघु-कालीसिन्धु-नद्याः उपरि निर्मिता अस्ति, अनेन च क्षेत्रस्य कृषकाणां कृते आधुनिक-सूक्ष्म-सिञ्चन-सुविधा उपलब्धा भविष्यति।
उल्लेखनीयं यत् सामाकोटा-बैराज-योजनायाः कुल-स्वीकृत-व्ययः १८८.४२ कोटि-रूप्यकाणि अस्ति। अस्याः जल-संग्रहण-क्षमता १७.५७ मिलियन-घन-मीटर अस्ति, येन ७२३६ हेक्टेयर-परिमिते कृषिक्षेत्रे नलिका-पद्धत्या सिञ्चन-सुविधा प्रदास्यते। अस्याः योजनायाः लाभः झारडा-तहसील-इत्यस्य अष्टादश-ग्रामाणां—नलखेड़ा, पनोडिया, नीमखेड़ा, घट्टियाजस्सा, मेलाखेड़ी, खोरियापदमा, खेरला, लसूड़ियानहाटा, नागपुरा, छज्जुखेड़ी, देलाखेड़ी, डूंगरखेड़ी, खेड़ामद्दा, कसोन, महिदपुरिया, सोमचिड़ी, झारडा च—प्रायः ११,०९३ कृषक-परिवारान् भविष्यति।
अस्यां योजनायां द्वौ पम्प-गृहे निर्मिते स्तः। तयोः पम्प-गृह-सङ्ख्या-१ इत्यस्मात् ५५४८ हेक्टेयर-क्षेत्रे, पम्प-गृह-सङ्ख्या-२ इत्यस्मात् च १७३८ हेक्टेयर-क्षेत्रे सिञ्चनं क्रियते। बैराज-इत्यस्य उन्नतिः १३ मीटर, दीर्घता च १०१० मीटर अस्ति। अस्मिन् १२ × ८.८५ मीटर-परिमाणयुक्तानि एकादश द्वाराणि स्थापितानि सन्ति।
एतदतिरिक्तं मुख्यमन्त्री डॉ.मोहन-यादवः अन्येषां विकास-कार्याणामपि लोकार्पणं करिष्यति। तेषु उच्च-शिक्षा-विभागेन निर्मितस्य महाविद्यालयस्य नवीन-भवनं (४.३५ कोटि-रूप्यक-व्ययेन), लोक-शिक्षण-विभागेन निर्मितानि शासकीय-कन्या-उच्चविद्यालय-सेमलिया, शासकीय-कन्या-उच्चविद्यालय-महिदपुर-रोड तथा शासकीय-उच्चतर-माध्यमिक-विद्यालय-कुण्डीखेड़ा इत्येषां भवनानि (प्रत्येकस्य १.४८ कोटि-रूप्यक-व्ययः), ऊर्जा-विभागेन मोचीखेड़े निर्मितः नवीनः ३३/११ के.वी. उपकेन्द्रः (१.९१ कोटि-रूप्यक-व्ययः), स्वास्थ्य-विभागेन झारडा-क्षेत्रस्य आक्यालिम्बा, पीपल्याधुमा, गोगाखेड़ा, भादवा, डूंगरखेड़ा, बरखेड़ाबुजुर्ग, मकला, चितावद, धाबलासिया, लसूड़ियानहाटा, नागगुराड़िया, नलखेड़ा तथा शक्करखेड़ी इत्यादिषु ग्रामेषु निर्मितानि त्रयोदश उप-स्वास्थ्य-केन्द्र-भवनानि (प्रत्येकं ०.६५ कोटि-रूप्यक-व्ययः) च अन्तर्भवन्ति। समग्रतया एतेषां विकास-कार्याणां अनुमानितः व्ययः २०७ कोटि-रूप्यकेभ्यः अधिकः अस्ति।
Hindusthan Samachar / Divya Ranjan